________________
नियमात्पटायभिन्नप्रकृत्यभिन्नस्य घटादेः पटायभिन्नत्वमिति घटस्यापि पटादिरूपेण सत्त्वमिति साङ्ख्यमतव्यवच्छेदार्थमर्थान्तरप्रतिषेधविधायको द्वितीय भङ्गोऽवश्यमेव प्रयोक्तव्यः, भङ्गद्वयप्रसिद्धौ तद्विषयविधिनिषेधोभययुगपत्प्राधान्यविवक्षया तृतीयभङ्गोऽप्यात्मानमासादयति इत्येवमेकः प्रकारः।१।
तथा नामघटः स्थापनाघटो द्रव्यघटो भावघट इत्येवं घट. श्चतुर्विधो भवति तत्र नामश्टो यदा घटतया विधातुमिच्छितस्तदा नामघटत्वेन घटोऽस्ति, तस्य घटस्य नामघटत्वमेव न तु स्थापनाघटत्वादिकं तस्याविधित्सितत्वादतोऽविधित्सितेन स्थापनाघटत्वादिना घटो नास्तीत्येवं प्रथमद्वितीयभङ्गो, तद्विषयाभ्यां नामघटत्वादिस्थापनाघटत्वादिस्यांक्रमेणास्तित्वनास्तित्वाभ्यां युगपत्प्रधानतया विवक्षिताभ्यामवाच्यो घटोभवति, युगपत्प्रधानीभूतविधित्सितरूपास्तित्वाविधित्सितरूपावच्छेद्यनास्तित्वोभयरूपेण घटस्याभिधेयपरिणामो नास्तीत्यतस्तथाऽ. वक्तव्य एव सः। अयश्च प्रकार इत्थमुपपाद्या,-यथा नामादिषु मध्ये विधित्सितरूपेण घटः तथाऽविधित्सितरूपेणापि घटः, एवं सति नामघटः स्थापनाघटादिरूपोऽपि प्रसज्येत इत्ययं घटो नामघटोऽयं पुनः स्थापनाघट इत्येवं प्रतिनियतनामादिमेदव्यवहार एवोत्सीदेत . एवश्च स्थापनाघटादितो व्यावृत्तं नामघटत्वादिकं विधित्सितं यदुपगतं तदेव न भवेत् , एवं स्थापनाघटत्वादिकमपीति सर्वाभाव एव प्रसज्येते त्यतो विधि