________________
(६७) त्सितरूपेण यो घटःस नाऽविधित्सितरूपेण सत्तामनुभवतीति प्रथमभङ्गव्यवस्थितिः, यथा चाविधित्सितरूपेण घटोऽघटः तथा विधित्सितरूपेणाप्यघटः स्यात् तदा सर्वथाऽप्यघटत्वे घटसत्तानिबन्धनव्यवहारोच्छेद एव स्यात्, एवं घटात्मकप्रतियोगिनिरूप्यस्याघटत्वस्यापि निरूपकीभूतघटाभावेऽभावः मामोतीत्यतोऽविधित्सितरूपेणैव घटस्याघटत्वमिति द्वितीयभङ्गोऽप्युपपद्यते, एवं युगपत्प्रधानतयोभयविवक्षायां यथाऽवाच्यस्तथैकपक्षस्यैवाभ्युपगमे तदितगभावे तस्याप्यभाव इति घटस्य सत्त्वासत्वयोरुभयस्याप्य भावे विधिनिषेधव्यतिरिक्तस्य घटस्य स्वरूपत एवाभावादवाच्यमिति तत्प्रतिपादकस्तृतीयभङ्ग उपपत्तिपद्धतिमेति । ननु विधित्सितरूपेण सत्वकालेऽप्य. विधित्सितरूयं तत्र समस्त्येवेति, एकरूपेण विधित्सा नान्यरूपावच्छिन्नसत्तां विरुणद्वि, रूपवत्वेन घटस्य विधित्सितत्वेऽपि रसवत्वेन तत्सत्त्वस्यापि भावादिति चेत्, न, गुणात्मकसत्त्वस्य गुणरूपत्वेऽपि व्यावहारिकस्य सत्त्वस्य तदभिधेय. परिणामपर्यव सितत्वेन विधित्सानुसारित्वात् , एवञ्च यद्यपि घटस्य रूपवत्वे रूपात्मकसत्त्वं तदानीमेव रसवत्वस्य भावेन रसात्मकसत्त्वमपि, तथापि रूपवत्त्वेन घटविधित्सायां रूपचत्वेनैव घटस्य सत्वं व्यवहियते न त्वविधित्सितेन रसवत्वेनेति रूपवत्वेन विधित्सायां रूपवत्वेनैव घटस्याभिधेय. परिणामो न तु रसवत्वेनेति, एवमग्रेऽप्याक्षेपपरिहारौद्रष्टव्या. विति द्वितीयः प्रकार: ॥२॥