SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ( २२ ) घटत्वावच्छिन्नविशेष्यताक निर्णयात्मकबोधस्तन्निवर्त्यस्वेन ताहशसंशयनिवर्तकबोधजनकोक्तवाक्यस्यापि निवर्त्यत्वेनोकसंशय निवर्तकस्य स्यान्नास्त्येव स्यादवक्तव्य एव घट इति षष्ठवाक्यस्याभियुक्तप्रयोक्तव्यत्वं युज्यते, एवमवक्तव्यत्वस्यैकै केन कथञ्चिदस्तित्वेन कथञ्चिन्नास्तित्वेन समं सहभावो यथा किं कथञ्चिदस्तित्वकथञ्चिन्नास्तित्वाभ्यामपि सह सहभाव इत्याकामाsपि जागयैव तन्मूलसंशय विशेषोऽपि स्यादिति तन्निवृत्यर्थं क्रमिकतदुभयविवक्षा सद्धीचीन युगपत्प्रधानीभूततदुभयात्मकावक्तव्यत्वविवक्षया स्यादस्येव स्यान्नास्त्येव स्यादवक्तव्य एव इति सप्तमवाक्यप्रयोगो घटते, तथाहि कथञ्चिदस्तित्वनिष्ठप्रकारतानिरूपित कथञ्चिदस्तित्वाभावनिष्ठ प्रकारतानिरूपितकथञ्चिन्नास्तित्वनिष्ठ प्रकारतानिरूपितकथञ्चिन्नास्तित्वाभावनिष्ठप्रकारता निरूपितकथञ्चिदवक्तव्यत्वनिष्ठ प्रकारतानिरूपितकथञ्चिदवक्तव्यत्वाभाव निष्ठप्रकारता निरूपितघटत्वावाच्छि न्नविशेष्यताक दोलायमानत्रोवरूपस्य स्यादस्ति स्यान्नास्तिस्यादवक्तव्यो घटो न वेत्येवंरूपस्य संशयस्य पट्कोटिकल्य स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्य एव घट इति वाक्यजन्यो यः कथञ्चिदस्तित्वाभावनिष्ठप्रकारत्वानिरू पितकथञ्चिदस्तित्वनिष्ठप्रकारतानिरूपितकथञ्चिन्नास्तित्वाभावनिष्ठप्रकारत्वानिरूपितकथञ्चिन्नास्तित्वनिष्ठ प्रकारतानिरूपितकथञ्चिदवक्तव्यत्वाभावनिष्ठ प्रकारत्वानिरूपित कथञ्चिदवक्त
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy