________________
( २३ )
व्यत्वनिष्ठप्रकारतानिरूपित घटत्वावच्छिन्न विशेष्य ताक निर्णयारमको बोधस्तनिवर्त्यत्वेन तादृशबोधजनकवाक्य निवर्त्यत्वस्य पि सम्भवेनोक्त संशयनिवर्तकोक्तबोधजनकस्य स्यादस्त्येव स्यानास्त्येव स्यादवक्तव्य एव घट इति सप्तमवाक्यस्याभियुक्तप्रयोक्तव्यत्वं युज्यते । स्यादस्त्येव घट इत्यादिवाक्यस्य विधिनिषेधयोरेकैकप्रकारबोधकत्वाद् भङ्गरूपत्वं भङ्गानां च सप्तविधानामपि प्रत्येकं न निराकाङ्क्षपरिपूर्णार्थबोधकत्वलक्षणप्रमाणवाक्यत्वम्, किन्तु सप्तभङ्गसमाहारलक्षणा सप्तभङ्गयेव निराकाङ्क्षपरिपूर्णार्थबोधकत्वलक्षणं प्रमाणवाक्यत्वम्, सप्तभङ्गीवाक्यजन्यवोचच यदि समुच्चयरूपो यदि वैकत्रद्वयमिति रीत्या बोधात्मकः उभयथाऽपि निराकाङ्क्षपरिपूर्णार्थविषयकत्वात् प्रमात्मक एवेति युक्तं तञ्जनकस्य सप्तभङ्गयात्मक महावाक्यस्य प्रमाणवाक्यत्वम्, तत्र समुच्चयबोधच कथञ्चिदस्तित्वनिष्ठप्रतियोगिताका भावत्वावच्छिन्न प्रकारत्वा निरूपितकथञ्चिदस्तित्वनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्न विशेष्य ताकत्वे सति कथञ्चिन्नास्तित्वनिष्ठप्रतियोगिताका भावत्वावच्छिन्नप्रकारत्वानिरूपितकथञ्चिन्नास्तित्वनिष्ठ प्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकत्वे सति कथञ्चिदस्तित्वनिष्टप्रतियोगिताकाभावत्वावच्छिन्नप्रकारत्वानिरूपित कथञ्चिदस्तित्व निष्ठप्रकारता निरूपिता या कथञ्चिन्नास्तित्वनिष्ठप्रतियोगिताका भावत्वावच्छि न्न प्रकारत्वानिरूपितकथञ्चिन्नास्तित्वनिष्ठप्रकारतानिरूपिता घटत्वावच्छिन्न विशेष्यता तादृशविशेष्यताकत्वे सति युगपत्