________________
(२१) भावनिष्ठप्रकारत्वानिरूपितकथञ्चिदस्तित्वनिष्ठप्रकारतानिरूपितकथञ्चिदवक्तव्यत्वाभावनिष्ठप्रकारत्वानिरूपितकथश्चिदवक्तव्यत्वनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकनिर्णयास्मको बोधस्तनिवर्त्यत्वेन तनिवर्तकबोधजनकोक्तवाक्यस्यापि निवर्त्यतया तन्निवर्तकस्य स्यादस्त्येव स्यादवक्तव्य एव घट इति वाक्यस्याभियुक्तप्रयोक्तव्यत्वं युज्यते । यथा च कथचिदस्तित्वेन सह सहभावः कथञ्चिदवक्तव्यत्वस्य तथा कि कथञ्चिन्नास्तित्वेन सहभावोऽवक्तव्यत्वस्य समस्तीत्याकाङ्क्षायास्तन्मूलस्य संशयविशेषस्य च जागरूकत्वान्न पञ्चसूक्तवाक्येषु परिसमाप्तं निराकाङ्क्षपरिपूर्णार्यबोधकत्वलक्षणं प्रमाणवाक्यत्वमत उक्ताकासासंशयविशेषनिवर्तकस्य स्यान्नास्त्येव स्यादवक्तव्य एव घट इति षष्ठवाक्यस्यावश्यप्रयोक्तव्यत्वम्, तथाहि कथञ्चिन्नास्तित्वनिष्ठप्रकारतानिरूपितकथञ्चिन्नास्तित्वाभावनिष्ठप्रकारतानिरूपितकथञ्चिदवक्तव्यत्वनिष्ठप्रकारतानिरूपितकथञ्चिदवक्तव्यत्वाभावनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकदोलायमानबोधरूपस्य घटः कथञ्चिन्नास्तित्वकथञ्चिदवक्तव्यत्वद्वयवान्न वेत्येवरूपस्य चतुष्कोटिकस्य संशयस्य स्यान्नास्त्येव स्यादवक्तव्य एवं घट इति वाक्यजन्यो यः कथञ्चिन्नास्तित्वाभावनिष्ठप्रकारत्वानिरूपितकथञ्चिन्नास्तित्वनिष्ठप्रकारतानिरूपितकथञ्चिदवक्तव्यत्वाभावनिष्ठप्रकारत्वानिरूपितकथश्चिदवक्तव्यत्वनिष्ठप्रकारवानिरूपिता