SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ (२०) कावक्तव्यत्वनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकबोधात्मको निर्णयस्तनिवर्यत्वेन तत्रिवर्तकबोधजनकोक्तवाक्यस्यापि निवर्त्यत्वसम्भवेन तन्निवर्तकबोधजनकस्य स्यादवक्तव्य एव घट इति तुरीयवाक्यस्याभियुक्तप्रयोज्यत्वं युज्यते, न च चतुर्भिरेवोक्तवाक्यनिराकास-परिपूर्णार्थबोधः संभवति येनोक्तचाक्यचतुष्टयपर्याप्तं प्रमाणवाक्यत्वं भवेत् , यतः कथञ्चिदस्तित्वेन सह नास्तित्वस्य सहभावविवक्षया यथा तृतीयवाक्यं प्रयुज्यमानं संशयविशेषतन्मूलाकासानिवर्तकं तथा कथञ्चिदस्तित्वेन सहावक्तव्यत्वस्य सहभावविवक्षया स्यादस्त्येव स्यादवक्तव्य एव घट इत्येवं प्रयुज्यमानं संशयविशेषतन्मूलाकाटानिवर्तकं तथा कथञ्चिदस्तित्वेन सहावक्तव्यत्वस्य सहभावविवक्षया स्यादस्त्येव स्यादवक्तव्य एव घट इत्येवं प्रयुज्यमानं संशयविशेषतन्मूलाकाङ्कतानिवर्तकं पञ्चमं वाक्यं स्यादेव । तथा हि किं घटः कथश्चिदस्तित्वसमाकलितयुगपत्प्रधानीभूतास्तित्वनास्तित्वोभयात्मकावक्तव्यत्ववानपि भवतीत्याकाङ्क्षामूलस्य कश्चिदस्तित्वे सत्यवक्तव्यवान् घटो न वेत्येवरूपस्य कथा श्चिदस्तित्वनिष्ठप्रकारतानिरूपितकथञ्चिदस्तित्वाभावनिष्ठप्रकाइतानिरूपितकथञ्चिदवक्तव्यत्वनिष्ठप्रकारतानिरूपितकथञ्चिदवक्तव्यत्वाभावनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकदोलायमानबोधरूपस्य चतुःकोटिकस्य संशयस्य स्यादस्त्येव स्यादवक्तव्य एव घट इति वाक्यजन्यो यः कथञ्चिदस्तित्वा
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy