________________
( १९) जनकतापर्याप्त्यधिकरणवाक्यत्रयमेव प्रमाणवाक्यमस्त्विति चेमास्तित्वनास्तित्वयोर्युगपदेवैकत्र वस्तुनि सतोः युगपदेव प्राधान्येन विवशापि वक्तुः संभवति । प्रतिपाद्यस्यापि च किं युगपत्प्राधान्येनास्तित्वनास्तित्वोभयवान वा घट इति संशयतन्मूलकाकासन्योभावात्तन्निवत्यथेमुक्तविवक्षया स्यादवक्तव्य एवं घट इति वाक्यं प्रयुञ्जते वृद्धाः, यद्यप्युक्तसंशयो नावक्तव्यत्वतदभावोभयकोटिकः किन्तु युगपत्प्राधान्येनास्तित्वनास्तित्वोभयतदभावोभयकोटिकः, स्यादवक्तव्य एव घट इति वाक्यप्रभवनिर्णयश्च कथञ्चिदवक्तव्यत्वाभावाप्रकारककथञ्चिदवक्त व्यत्वप्रकारकबोधस्वरूपः, तथापि युगपत्प्राधान्येन विवक्षितकथञ्चिदस्तित्व-कथञ्चिन्नास्तित्वयोः प्रतिपादक न । समासरूपं व्यामरूपं वा वचनं समस्तीति तथा विवक्षितं तदुभयमेवैकत्र धर्मिणि भवत्यवक्तव्यत्वमिति तत्प्रकारकनिर्णय उक्तसंशयनिवर्तकः स्यादेव, एवं च युगपत्प्राधान्यालिङ्गितास्तित्वनास्तित्वोभयनिष्ठप्रकारतानिरूपितयुगप्रत्प्राधान्यालिङ्गितास्तित्वनास्तित्वोभयाभावनिष्ठप्रकारतानिरूपितघटत्वावच्छिबविशेष्यताकदोलायमानबोधरूपस्य निरुक्तसंशयस्य स्यादवक्तव्य एव घट इति वाक्यजन्यो यः युगपत्प्रधानीभूतस्वद्रव्याद्यपेक्ष्यास्तित्वपरद्रव्याद्यपेक्ष्यनास्तित्वोभयात्मकावक्तव्य. त्वनिष्ठप्रतियोगिताकाभावनिष्ठप्रकारत्वानिरूपितयुगपत्प्रधानीभूतखद्रव्याद्यपेक्ष्यास्तित्वपरद्रव्याद्यपेक्ष्य नास्तित्वोभयात्म