________________
(१८) द्रव्याधपेक्षया नास्तित्वाभावस्वरूपचतुष्कोटिक एव स्यादस्ति स्थानास्ति न वेति संशयः स्यादस्त्येव स्यानास्त्येव च घट इति वाक्यनिवर्त्यः, तस्य स्वद्रव्याद्यपेक्षयाऽस्तित्वनिष्ठप्रकारतानिरूपितस्वद्रव्याद्यपेक्षया नास्तित्वनिष्ठप्रकारतानिरूपितपरद्रव्याद्यपेक्षया नास्तित्वाभावात्मकपरद्रव्याद्यपेक्षयाऽस्तित्वनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्नविशष्यताकदोलायमानज्ञानरूपस्य स्यादस्त्येव स्यान्नास्त्येव घट इति वाक्यजन्यो यः खद्रव्याद्यपेक्षयाऽस्तित्वाभावनिष्ठप्रकारत्वानिरूपितस्वद्रव्याद्यपेक्षयाऽस्तित्वनिष्ठप्रकारतानिरूपितपरद्रव्याद्यपेक्षया नास्तित्वाभावनिष्ठप्रकारत्वानिरूपितपरद्रव्याद्यपेक्षया नास्तित्वनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकनिर्णयात्मको बोधस्तनिवर्त्यत्वेन तादृशबोधजनकवाक्यनिवर्त्यत्वस्यापि सम्भवेनोक्तसंशयनिवर्तकः स्यादस्त्येव स्यान्नास्त्येव घट इति वाक्यस्याभियुक्तप्रयोज्यत्वं युज्यते, एतच्च प्रथमद्वितीयवाक्यप्रतिपाद्यविधिनिषेधाभ्यां तृतीयवाक्यप्रतिपाद्यविधिनिषेधद्वयस्यानतिरेकेऽपि तद्विषयकबोधस्य तृतीयवाक्यजन्यस्य प्रथम द्वितीयवाक्यजन्यबोधाभ्यां विलक्षणत्वेन तन्निवर्त्यसंशयस्यापि प्रथमद्वितीयवाक्यजन्यबोधद्वयनिवर्त्यसंशयद्वयभिन्नत्वेन युक्तमेव तृतीयवाक्योपादानमित्यभिप्रायकं बोध्यम् ॥
ननूक्तक्रमेण वाक्यत्रयप्रयोगस्यावश्यकत्वेऽपि त्रिभिरे। वोक्तवाक्यनिराकाङ्क्षपरिपूर्णार्थबोधस्य सम्भवेन तादृशबोध