________________
एवं स्यान्नास्त्येव घट इत्यत्राप्यनुयोगिना घटेनैव स्यात्पदा.
स्य कथश्चिदित्यस्यान्वयः एवं च स्यादस्त्येव घट इत्यस्य निवर्त्यः स्यादस्ति न वेति संशयः अस्तित्वाभावनिष्ठप्रकारतानिरूपितास्तित्वनिष्ठप्रकारतानिरूपितवद्रव्यादिनिष्ठावच्छेदकतानिरूपितघटनिष्ठविशेष्यताकदोलायमानबोधस्वरूपः, तस्य स्यादम्त्येव घट इति वाक्यजन्यो योऽस्तित्वाभावनिष्ठप्रकारस्वानिरूपितास्तित्वनिष्ठप्रकारतानिरूपितस्वद्रव्यादिनिष्ठावच्छे. दकतानिरूपितघटनिष्ठविशेष्यताकनिर्णयात्मको बोधस्तन्निवय॑त्वेन तादृशबोधजनकवाक्यनिवर्त्यत्वात् तादृशसंभयनिवर्तकस्य स्यादस्त्येव घट इति वाक्यस्यावश्यप्रयोक्तव्यत्वम् स्यान्नास्त्येव घट इति वाक्यनिवय॑श्च स्याद् घटो नास्ति न वेति संशयोनास्तित्वनिष्ठप्रकारतानिरूपितास्तित्वात्मकनास्तिस्वाभावनिष्ठप्रकारतानिरूपितपरद्रव्यादिनिष्ठावच्छेकतानिरूपितघटनिष्ठविशेष्यताकदोलायमानबोधरूपः स स्यादस्ति न वा घट इति संशयाद् भिन्नः तस्य च स्यान्नास्त्येव घट इति वाक्यजन्यो योऽस्तित्वात्मकनास्तित्वाभावनिष्ठप्रकारवानिरूपितनास्तित्वनिष्ठप्रकारतानिरूपितपरद्रव्यादिनिष्ठावच्छेदकतानिरूपितघटनिष्ठविशेष्यताकनिर्णयात्मको बोधस्तान्निवयंत्वेन निरूक्तबोधजनकवाक्यनिवर्यत्वान्निरुक्तसंशयनिवतकस्यान्नास्त्येव घट इति वाक्यस्यावश्यप्रयोक्तव्यत्वम् । व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावानभ्युपगन्तमते गवि