SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ( १४ ) tria a इति वाक्यस्याप्तप्रयोज्यत्वं युज्यत एव स्वद्रव्यक्षेत्रकालानां घटाधिकरणत्वे घटात्मकस्वरूपास्तित्वस्याधिकरत्वं ततश्च स्वद्रव्यक्षेत्रकाला आधेयत्वसम्बन्धेन घटधर्मत्वाद् घटात्मकास्तित्वर्मा अपि भवन्त्येव, भावस्य घटत्वाद्यात्मकस्य घटधर्मत्वेन तदात्मक स्वरूपास्तित्वधर्मत्वमपि सुप्रतीतमिति धर्मविधयास्ति स्वद्रव्यादीना मस्तित्वनिष्ठप्रकारतावच्छेदकत्वं युज्यते प्रतियोगिवृत्तिधर्मो यथा घटत्वेन घटो नास्तीति प्रतीतिबलात् प्रतियोगितावच्छेदकः, तथा प्रतियोग्यवृत्तिधर्मोऽपि पटत्वेन धर्मो नास्तीति प्रतीतिबलात् प्रतियोगिताऽवच्छेदकोभ्युपेय एव, नव्यन्याययुक्तिसूत्रधारेण शिरोमणिभट्टाचार्येणाप्युक्तम् " यदि च पटत्वेन घटो नास्तीति प्रत्यय आनुभविको लोकानां तदा तादृशाभावनिराकरणं सुरगुरुणाऽप्यशक्यमिति मन्तव्यम्, तथा च व्यधिकरणधर्मस्य प्रतियोगितावच्छेदकत्वे सुदृढनिरूढे परद्रव्यादीनां घटस्वरूपास्तित्वावृत्तीनामपि तन्निष्ठप्रतियोगितावच्छेदकत्वात् परद्रव्यादिनिष्ठावच्छेदकतानिरूपितास्तित्वनिष्ठप्रतियोगिताका भावो व्यधिकरणधर्मावच्छिन्नप्रतियोगिताको नाप्रसिद्ध इत्याहुः अन्ये तु प्रतियोग्यंशे भासमानो व्यधिकरणधर्मो तथा प्रतियोगितावच्छेदकस्तथाऽनुयोग्यंशे भासमानो व्यधिकरणधर्मोनुयोगितावच्छेदकोऽपि भवत्येव तथा च स्यादस्त्येव घट इत्यत्र कथञ्चिदित्यथः स्यात्यदस्यानुयोगिना घटेनान्वेति
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy