________________
शशशृङ्गं नास्तीति प्रतीतेरनुभूयमानाया अपलपितुमशक्याया: शशीयत्वावच्छिन्नशृङ्गनिष्ठप्रतियोगिताकाभावत्वावच्छिन्नप्रकारतानिरूपितगोत्वावाच्छिन्नविशेष्यताकबोधात्मकत्वासम्भवेऽपि गोनिरूपिनवृत्तित्वाभावनिष्ठप्रकारतानिरूपितशशीयत्वनिष्ठात्वच्छेदकतानिरूपितशृङ्गनिष्ठविशेष्यताकचोधात्मकत्वं व्य. विकरणधर्मस्थानुयोगितावच्छेदकत्वं स्वीकृत्यैव घटत इति प्राहुः । नन्वस्तूक्तवाक्ययोरेव निराकाङ्क्षपरिपूणार्थबोधजनकत्वात् प्रमाणवाक्यत्वमिति चेत् , न, ताभ्यां क्रमेणैकैकविधिनिषेधधर्मप्रकारकबोधजननेऽपि प्राधान्येन विधिनिषेधधर्मद्वयाकलितवस्तुप्रतिपत्त्यभावात् प्राधान्येन विधिनिषेधधर्मद्वयचस्त्वितीत्याकाङ्कोत्थितैव तदुपशमनाय क्रमिकविधिनिषेधधर्मद्वयप्राधान्यविवक्षया स्यादस्त्येव स्यान्नास्त्येव च घट इति वाक्यं प्रयुञ्जते वृद्धाः, तच्च वाक्यं स्यादस्त्येव घटः स्यान्नास्त्येव घट इति वाक्याम्यां भिन्नं विवक्षान्तरसमुद्भुतत्वादुक्तवाक्यद्वयनिवत्यंसंशयद्वयभिन्नसंशयनिवर्तकत्वाच, स्यादस्त्येव घट इति वाक्यप्रयोजिका विवक्षाऽस्तित्वस्य प्राधान्य नास्तित्वस्य चाप्राधान्यं विषयीकरोति, स्यान्नास्त्येव घट इति वाक्यप्रयोजिका च विवक्षा नास्तित्वस्य प्राधान्यमस्तित्वस्य चाप्राधान्यं विषयीकरोति, स्यादस्त्येव स्यानास्त्येव घट इति वाक्यप्रयोजिका च विवक्षा अस्तित्वस्य प्राधान्यमेव नास्तित्वस्य प्राधान्यमेव च विषयीकरोति न तु तयोर