________________
(१२)
रूपः, तस्य निरुक्तवाक्यजन्यो यः खद्रव्याघवच्छेदेन नास्तित्वनिष्ठप्रकारत्वानिरूपितवद्व्याद्यवच्छेदेनास्तित्वनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकनिर्णयात्मको बोधस्तन्निवर्यत्वं स्फुटमेव एवं चोक्तसंशयनिवृत्त्यर्थ निरुक्तनिर्णयात्मकबोधजनकस्य स्यादस्त्येव घट इति वाक्यस्याभियुक्तप्रयोक्तव्यत्वं युज्यते, स्यानास्त्येव घट इति वाक्यजन्यबोधनिवर्त्यश्च संशयः स्यान्नास्ति न वेति परद्रव्याद्यवच्छेदेन नास्तित्वनिष्ठप्रकारतानिरूपितपरद्रव्याद्यवच्छेदेन अस्तित्वात्मकनास्तित्वाभावनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकदोलायमानबोधस्वरूपः स्यादस्ति न वेति संशयाद भिन्न एव, तस्य स्यानास्त्येव घट इति वाक्यजन्यो यः परद्रव्याद्यवच्छेदेन नास्तित्वामावनिष्ठप्रकारत्वानिरूपितपरद्रव्याद्यवच्छेदेन नास्तित्वनिष्ठप्रकारतानिरूपितघटत्वावच्छिमविशेष्यताकनिर्णयात्मको बोधस्तनिवर्त्यत्वेनोक्तसंशयनित्यर्थं निरुक्तनिर्णयात्मकबोधजनकस्य स्थानास्त्येव घट इति वाक्यस्याभियुक्त प्रयोक्तव्यत्वं युक्तियुक्तमेवेत्याहुः, केचित् तु स्यादस्त्येव घट इत्यत्र स्वद्रव्यादिकमस्तित्वनिष्ठप्रकारताया अवच्छेदकतया भासते, स्यान्नास्त्येव घट इत्यत्र त्वस्तित्वनिष्ठप्रतियोगिताया अवच्छेदकतया परद्रव्यादिकं भासते, तथा चास्तित्वास्तित्वाभावलक्षणनास्तित्वयोविधिनिषेधरूपता स्पष्टैव, स्यादस्त्येव घट इति वाक्यजन्यबोधनिवय॑श्च स्यादस्ति न