SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ( १९) विशेष्यताकनिर्णयात्मको निरुक्तसंशयनिवर्तक इति तज्जनकमुक्तवाक्यं भवत्यवोपादेयम् , ननु कथञ्चिदस्तित्वकथश्चिनास्तित्वे न परस्परनिषेधरूपे इति कश्निनास्तित्वापेक्षया कथश्चिदस्तित्वस्य न विधिरूपत्वं तथा कथञ्चिदस्तित्वापेक्षया कथञ्चिन्नास्तित्वस्य न निषेधरूपत्वमित्येकत्र धर्मिणि एकैकस्य धर्मस्य विधिनिषेधकल्पनया सप्तभङ्गसमुदायात्मकं सप्तमङ्गीवाक्यं प्रमाणवाक्यमिति स्याद्वादप्रतिज्ञात मेवासङ्गतं स्या. दिति चेन्न, यतः सामान्यतोऽस्तित्वनास्तित्वयोविधिनिषेधयोरन्योन्यविरुद्धयोरेवाविरोधप्रतिपयर्थ स्यात्पदलाग्छितं सप्तभङ्गीवाक्यं प्रयुञ्जतेऽभियुक्ता इत्यस्तित्वनास्तित्वयोरेव विधिनिषेधयोर्विरोधपरिहारस्यास्तित्वस्य कथञ्चिदस्तित्वरूपतया नास्तित्वस्य कथञ्चिन्नास्तित्वरूपतया पर्यवसानत एव सम्भवादिति विरुद्धविधिनिषेधरूपत्वस्य तदानीमभावेऽप्यविरुद्धविधिनिषेधरूपत्वं समस्त्येवेति युक्तमुत्पत्ययामः। अपरे तु अस्तित्वमेव स्यादस्त्येव घट इत्यत्र किञ्चिदवच्छेदेन घटे प्रकारतया भासते, स्यानास्त्येव घट इत्यत्र किञ्चिदवच्छेदेन नास्तित्वमेव घटे प्रकारतया भासते, अस्तित्वनास्तित्वयोश्चान्योऽन्यप्रतिक्षेप्यप्रतिक्षेपकभावेन विधिनिषेधरूपता स्पष्टैव,स्यादस्त्येव घट इति वाक्यजन्यबोधनिवत्यश्च संशयः स्व. द्रव्याद्यवच्छेदेनास्तित्वनिष्टप्रकारतानिरूपितस्वद्रव्याद्यवच्छेदेन नास्तित्वनिष्ठप्रकारवानिरूपितघटत्वावच्छिन्नविशेष्यताकसंशय.
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy