________________
( १० )
·
कथञ्चिन्नास्तित्वाभावनिष्ठ प्रकारत्व निरूपितकथञ्चित्रास्तित्वनिष्ठा प्रकारतानिरूपित घटत्वावच्छिन्न- विशेष्यताकबोधजनकं वाक्यमपि प्रयुञ्जत एव स्याद्वादिनः ननु य एव संशयो निव र्तनीयतया भावाभावोभयकोटिकतया स्यादस्त्येव घट इति भङ्गप्रयोजकः स एव नास्त्येव घट इति भङ्गप्रयोजकोऽपि, स च प्रथमभङ्गादेव निवृत्त इति न पुनरुत्थातुमर्हतीति न संशयनिवृत्त्यर्थं स्यान्नास्त्येत्र घट इति वाक्यं प्रयोक्तव्यमिति चेन्न एकत्र विरुद्धधर्मद्वयावगाहिज्ञानस्यैव संशयत्वात् कथञ्चिदस्तित्वस्य सर्वथाऽस्तित्वं कथञ्चिदस्तित्वाभावव्याप्यत्वाद् विरुद्धं कथञ्चिदस्तित्वाभावश्च निषेधरूपत्वाद् विरुद्ध इति कथञ्चिदस्तित्व सर्वथाऽस्तित्वोभयकोटिकः कथञ्चिदस्तित्वकथञ्चिदस्तिस्वाभावभयकोटिको वा संशयः स्यादस्त्येव घट इति वाक्यानिवर्ततां नाम, कथञ्चिन्नास्तित्वं च न कथञ्चिदस्तित्वविरुद्धं कथञ्चिदस्तित्वनिषेधरूपत्वाभावात् कथञ्चिदस्तित्ववत्यपि कथञ्चिनास्तित्वस्य सम्भवात् अत एव तत् कथञ्चिदस्तित्वाभावस्य व्याप्यमपि न भवति, ततः कथञ्चिन्नास्तित्वकथञ्चिनास्तित्वाभावो भयकोटिकः कथञ्चिन्नास्तित्वाभावव्याप्य सर्वथानास्तित्वादिकोटिको वा संशयोऽन्य एव तस्य स्यादस्त्येव घट इति वाक्यजन्यबोधान्निवृत्त्यभावात् स्यान्नास्त्येव घट इति वाक्यजन्यबोध एवं कथञ्चिन्नास्तिात्वाभावनिष्ठ प्रकारत्वानिरूपितकथञ्चिन्नास्तित्वनिष्ठ प्रकारतानिरूपितघटत्वावच्छिन्न
५
-