________________
( २ )
व्युत्पत्रं प्रति अस्ति घट इत्येव प्रयुज्यते तत्रापि वाक्ये - वधारणमिति वचनादवधारणार्थकैवकारस्य,
'सोsप्रयुक्तोऽपि वा तज्ज्ञैः, सर्वत्रार्थात् प्रतीयते । यथैवकारोऽन्यादिव्यवच्छेदप्रयोजनः ॥ ५ ॥
इतिवचनात् स्यात्पदोपसन्दानं भवत्येवेति तदपि वाक्यं स्यादस्त्येव घट इति स्वरूपपर्यवसितमेव, अत्रानेकान्तद्योतकत्वाद् यन्तप्रतिरूपकस्यात्पदं कथञ्चिदर्थमवगमयति तेन च कथञ्चिदस्तित्वाभावनिष्ठप्रकारत्वानिरूपितकथञ्चि
दस्तित्वनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्न विशेष्यताकबोधो जायमानो निरुक्तसंशयनिवर्तको भवत्येव न तु तादृशबोधो निराकाङ्क्ष इति नोक्तबोधजनकं स्यादस्त्येव घट इति वाक्यं निराकाङ्क्षन्परिपूर्णार्थबोधजनकत्वाभावात् प्रमाणवाक्यम्, न चोक्वाक्याद् बोधे जाते नास्त्येवोत्थिताऽऽकाङ्क्षा काचित्, उत्थाप्याकाङ्क्षा तु प्रमाणवाक्येनाभिमतसप्तभङ्गी - जन्यबोधानन्तरमपि जायमाना न निरोद्धुं शक्येति निराकाङ्क्षस्वमुत्थिताकाङ्क्षारहितत्वमेव वाक्यं तच्च स्यादस्त्येव घट इति वाक्यजन्यबोधेऽपि समस्त्येवेति कथं न तस्य प्रमाणवाक्यत्वमिति वाच्यं यतः किं नास्तित्वमपि घटस्य, येन स्वद्रव्यक्षेत्रकालभावैरित्येवंस्वरूपकथञ्चिदर्थसंवलनमस्तित्वे क्रियत इत्याकाङ्क्षोत्थितैवेति तद्रहितत्वाभावान्न निराकाङ्क्षत्त्वम् उक्ता काङ्क्षानिवृत्यर्थं तन्मूलसंशयनिवृत्यर्थं च स्यान्नास्त्येव घट इति
1