________________
(८) वाच्यस्तथैवोत्तरवादिनाऽपि,
तयैव वाचा स तथाविधोऽर्थः ॥३॥" इति वैतण्डिकवचनावलम्बनेनोत्तरवाक्यमस्ति घट इत्येवं रूपं संभवदपि न तावन्मात्रं प्रयोगार्हम् -
'वाक्येऽवधारणं तावदनिष्टार्थनिवृत्तये । कर्तव्यमन्यथाऽनुक्तसमत्वात् तस्य कुत्रचित् ॥४॥
इति वचनादस्त्येव घट इत्येवं स्वरूपवाक्यस्यैव प्रयोगाईत्वात् , एंवचावधारणबलानास्तित्वस्य निवृत्तितः सर्वथातित्वस्यैव प्रतीतिरुक्तवाक्यात गानोति, सा च बाधितार्था भ्रान्तिरूपा प्रसज्येत, यतो घटस्यास्तित्वं घटत्वेन रूपेण, पटस्यास्तित्वं पटत्वेन रूपेणेत्येवं सामान्यतोऽस्तित्वस्यावकछेदका घटत्वपटत्वादयः सर्वेऽपि धर्मा इति घटस्य सर्वथाऽस्तित्वे घटत्ववत्पटत्वादयोऽप्यवच्छेदकतयानिमित्तानि स्युरिति पटत्वावच्छेद्यास्तित्वालिङ्गितत्वात् पटस्वरूपमिव घटस्वरूपमपि पटस्वरूपं स्यादेवं घटो मठाधशेषपदार्थस्वरूप उक्तवाक्यतः प्रतीयेत, न च पटादिस्वरूपो घट इति नास्त्येव घट इत्युत्तरवाक्यं प्रमाणवाक्यम् , अपि त्वबाधितार्थप्रतिपादकत्वाद् घटविशेष्यकास्तित्वविशेषतदभावप्रकारको यः सशंयो घटोऽस्ति न वेत्याकारकः घटः कथञ्चिदस्ति न वेत्येवं स्वरूपपर्यवसितस्तन्निवर्तकनिर्णयफलक स्यादस्त्येव घट इत्येवोत्तरवाक्यं प्रयुञ्जते वृद्धाः, यत्रापि