________________
(७) त्वाविमिश्रितमेकान्तास्तित्वमभिमन्यमाना नैयायिकादयोऽस्तित्वसंशयस्य परगतस्यापाकरणायास्ति घट इति वाक्यं प्रयुञ्जते तस्यैव निराकासपरिपूर्णार्थबोधजनकत्वात् प्रमाणवाक्यत्वमामनन्ति, तत्र स्याद्वादिन एवं कथयन्ति स्वरूपसत्त्वातिरिक्तसत्तासामान्यलक्षणस्यार्थक्रियाकारित्वादिलक्षणस्य वाऽसम्भवात् स्वरूपसवमेव घटादेरस्तित्वं घटादिरूपमिज्ञानमेव घटादिगतास्तित्वज्ञानमिति घटादिरूपमिज्ञानं यदि परस्य समस्ति तर्हि घटाद्यात्मकास्तित्वज्ञानमपि परस्य निर्णयात्मकं समस्त्येवेति तनिर्णयस्य तत्संशयविरोधित्वाद् घटोऽस्ति न वेति संशयस्यैव परस्मिन्नसम्भव इति न तदपाकरणप्रयोजन घटोऽस्तीतिवाक्यं प्रयोक्तव्यम् , यदि च घटादिरूपमिज्ञान न परस्य, तहिं धर्मिज्ञानस्य तद्धर्मिकसंशयंप्रतिकारणत्वात् तद्रूप कारणाभावादेव संशयो नोत्पत्तुमहतीत्येवमपि परगतसंशयाभावान्न तदपाकरणप्रयोजनकं घटोऽस्तीति वाक्यं प्रयोक्तव्यतामञ्चति,स्याद्वादिनां मते तु खद्रव्यम्वक्षेत्रखकालवस्वभावैःसमं कथञ्चिद्भेदसहिष्ण्वमेदलक्षणतादात्म्यमेव घटादेः सम्बन्ध इति वद्रव्यादिस्वरूपमपि घटादिस्वरूपास्तित्वमित्यस्तिविशेषस्वरूपास्तित्वस्य निर्णयाभावेऽपि घटादिरूपधर्मिज्ञानसंभवेन ततः परस्यास्तित्वविशेषमुपादाय घटोऽस्ति न वेति संशयस्य समवेऽपि।
"यथाविधं य विषयं निजस्य,
प्रश्नस्य निर्वक्ति परो यथोक्या ।