________________
(६) संसिद्धसप्तभङ्गारमकसप्तभङ्गीमर्थादभ्युपगच्छन्ति, वेदान्तपादिनोऽपि।
" तुच्छा चानिर्वचनीया च, वास्तवी चेत्यसौ विधा शेया माया त्रिभिर्योधः, श्रौतयौक्तिकलौकिकैः ॥२॥" इत्यादिवचनात् एकत्रैव धर्मिण्यपेक्षाभेदेन तुच्छत्वानिचनीयत्ववास्तवित्वलक्षणपरस्परविरुद्धधर्मत्रयमभ्युपगच्छन्त उक्तदिशा सप्तभङ्गीमभ्युपगच्छन्त्येवेति तान् प्रत्यपि सप्तभङ्गीमीमांसा कर्तव्यतामञ्चति। तत्र ये जैनसिद्धान्तरहस्याभिज्ञाः सप्तभङ्गीस्वरूपं स्वाभ्यस्तचतुरशीतिवादविलब्धविजयवादिकुमुदचन्द्रविजेतृदेवसूरिप्रभृतिग्रन्थसार्थादेवावगच्छन्ति खयमपितत्तद्वन्थोक्ततत्तद्विषयकविचारोहापोहसमर्थाः सप्तभङ्गयुपपादनयुक्तिसूत्रणसूत्रधाराः तान् प्रति विशिष्य प्रत्येकभङ्गार्थनिर्णयफलिका मीमांसाऽनतिप्रयोजनत्वानोपादानाहा, किन्तु संक्षिप्तविचारसमाकलितसप्तभङ्गार्थाद् बोधफलिका यत्किञ्चिद्विशेषशेमुष्याधान योजना मीमांसोपयुज्यत एव, तथाहिपरेषां विप्रतिपत्तिसंशयाज्ञानाद्यन्यतमोन्मूलनाय प्रमाणवाक्यमुचारयन्ति कृतिनः, न चापूर्णार्थसन्दिग्धार्थसाकामार्थाकबोधजनकाद् वाक्यात्स्वजन्यबोधद्वारा विप्रतिपत्त्याद्यन्यतमनिराकरणं सम्भवतीति निराकासासन्दिग्धसम्पूर्णार्थावबोधजनकमेव प्रमाणवाक्यमुपाददते प्रेक्षाकारिणः, निरुक्तबोधजनकत्वात् सप्तमङ्गयात्मकमहावाक्यमेव प्रमाणवाक्यम्, भ्रान्त्या नास्ति