________________
( ५ )
श्रद्धास्पदं च परेषामपीयं सप्तभङ्गी, यतः कपिलमतानुयायिनः सच्चरजस्तमसां साम्यावस्थां प्रकृतिमभ्युपगच्छन्ति, तथा च गुणत्रयात्मकत्वेनानेकरूपा प्रकृतित्वेन चैकस्वरूपेत्येवमेकस्यामपि प्रकृतावपेक्षा भेदेनैकत्वानेकत्वयोर्भावे स्यादेकैव प्रकृतिः स्यादनेकैव प्रकृतिरित्येवमाद्यद्वितीयभङ्गयोः प्रवृत्तावेकत्वानेकत्वयोः क्रमिकप्राधान्यविवक्षायुगपदुभयप्राधान्यविवक्षाभ्यां तृतीयतुरीयभङ्गयोरपि प्रवृत्तौ प्रथमतुरीयसंयोग- द्वितीयतुरीय संयोग-तृतीयतुरीयसंयोगेभ्यः पञ्चमषष्ठसप्तमभङ्गानां प्रवृत्तौ तत्सप्तभङ्गसमूहरूपसप्तभङ्गयाः प्रवृत्तिरर्थादुपगतैव, एवं नीलपीते इति समूहालम्बनात्मकज्ञानस्य चित्रैकाकारत्वमभ्युपगच्छन्तः सौगता अपि चित्रात्मकैकाकारत्वत एकत्वं नीलाकारत्व पीताकारत्वद्वययोगादनेकत्वम् चित्रैकाकारानभ्युपगमेऽपि वा स्वरूपत एकत्वं नीलाकारत्व पीताकारत्वाभ्यामनेकत्वमेकस्या बुद्धेरभ्युपगच्छन्तीति तन्मतेऽप्युक्तदिशा सप्तभङ्गीप्रवृत्तिरर्थादुपगतैव, नैयायिक-वैशेषिकावपि एकस्मिन् चित्ररूपे प्राचीनमताश्रयेणैकत्वं नव्यमताश्रयणेनानेकत्वमभ्युपगच्छन्तौ पूर्वोक्त दिशाऽर्थादुपनतां सप्तभङ्ग कथन्नाम नोररीकुरुतः, गुण गुणिनोः क्रिया- क्रियावतोरवयवावयविनोर्जातिव्यक्त्योर्भेदाभेदात्मककथञ्चिदविष्वग्भावलक्षणतादात्म्यमभ्युपगच्छन्तो जैमिनीया अपि एकत्र धर्मिण्यैकस्यैवापेक्षाभेदेन भेदाभेदयोरुपगमबलात् प्रथमद्वितीयभङ्गप्रसिद्धिनिरुक्त दिगुपनत तृतीयभङ्गादिप्रवृत्ति