SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ (४) कधर्मावगाहिप्रत्यक्षादेरप्युक्तसंस्कारचलानिरुक्तसप्तधर्माविगाहित्वतः सम्पूर्णार्थबोधात्मकत्वात् प्रामाण्यं सुव्यवस्थितमित्येवं सकलप्रमाणप्रामाण्यव्यवस्थापकत्वात्सप्तभङ्गथात्मकप्रमाणवाक्यं जिज्ञास्यत्वाजैनान् प्रति सप्तभङ्गीमीमांसा कर्तव्या भवतु नाम, तावता स्वगृहमान्यैव सा, तत्वबुभुत्सूनां जैनानामेव वादकथायामुपयोगिनी सा तैस्तत्वनिर्णयार्थमेवोपयोगिनी, कथङ्कारं दुर्दमपरवादिभिः समं जल्पकथायां प्रवर्तमानानां थाद्वादिनां तत्पराजयफलमभिलषतामभ्यसनीया, तथापि एकान्तवाद्यभिमतैकान्तास्तित्वादिखण्डनयुक्तित एव कथश्चिदस्तित्वादिधर्मप्रसिद्धथा तत्प्रतिपादकसमभङ्गसमूहात्मकसप्तभङ्गी प्रमाणवाक्योपपत्तिः सम्भवतीति सप्तमङ्गयर्थस्वरूपाभ्यासशालिनःस्याद्वादिनः सभाक्षोभादिकारणेनाप्यप्रतिबद्धप्रसरास्तदन्तर्गताम्यस्तैकान्तमतखण्डनयुक्तिकदम्बकैरेकान्तवादिप्रकाण्डान् विजयन्त एवेति जल्पकथोपयोगिन्यपि सप्तभङ्गीति परवादिपराजयाभिलाषुकान् प्रत्यपि सप्तमङ्गीमीमांसा कर्तव्यैव, तथा चोक्तं पूज्यरत्नप्रभसूरिभिः । "या प्रश्नाद्विधिपर्युदासभिधया बाधच्युता सप्तधा, धर्म धर्ममपेक्ष्य वाक्यरचना नैकात्मके वस्तुनि; निर्दोषा निरदेशि देव ! भवता सा सप्तभङ्गी यया, जल्लन् जल्परणाङ्गणे विजयते वादी विपक्षं क्षणात्" इति.
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy