________________
भावे प्रथमभङ्गविषयसटिततुरीयभनविषयविवक्षोपजातस्वरूपपश्चमभङ्गस्य द्वितीयभङ्गविषयसंवलितचतुर्थभङ्गविषयविवक्षालब्धात्मभावषष्ठभङ्गस्य तृतीयतुरीयभङ्गविषयसंमिश्रविवक्षोपलम्धस्वरूपसप्तमभङ्गस्य चाभावे न सम्भवत्येव सप्तभङ्गसमुदायस्वरूपा समभङ्गीति विषयाभावदसत्ख्यात्यनभ्युपगन्तृणां बौद्धभिमानामेकान्तवादिनां तद्विषयकज्ञानमपि नास्तीति तद्विक यकेच्छास्वरूपायाः सप्तभङ्गीजिज्ञासाया असम्भवान्न जिज्ञासितव्यत्वं सप्तभङ्गया इति तान् प्रति सप्तभङ्गीमीमांसा न कर्तव्यतामश्चति, अनन्तधर्मात्मकैकवस्त्वभ्युपगन्तुजैनमते एकैकधर्मावलम्बनेन विधिनिषेधयोरेकत्र धर्मिणि पृथक्कल्पनया विधिनिषेधयोयुगपत्सद्भावकल्पनायामपि क्रमिकप्राधान्यविवक्षया युगपत्प्राधान्येन तदुभयविवक्षया पृथविधिविवक्षासंवलितयुगपत्प्राधान्येन तदुभयकल्पनोपनीतयुगपत्तदुभयप्राधान्यक्विक्षया पृथनिषेधविवक्षासंवलितयुगपत्प्रधान्येन तदुभयकल्पनोपनीतयुगपत्तदुभयप्राधान्यविवक्षया, पृथग्विधिनिषेधविकक्षासंवलितयुगपत्प्राधान्येन तदुभयकल्पनोपनीतयुगपत्तदुभयप्राधान्य विवक्षया च सप्तधर्मप्रतिपादकसप्तमङ्गसम्भवतस्तत्समदायरूपायाः सप्तमग यार संभवेन तद्विषयक ज्ञानविषयकेच्छारूपायास्तजिज्ञासायासंभवतो जिज्ञासितव्यत्वं सप्त- . भङ्गायाः संभवति सप्तभङ्गीतः स्वस्वनिमित्तापेक्षसप्तविधधर्मप्र. कारकै कविशेष्यकरोधो निराकाङ्गत्वात् सम्पूर्णत्याच प्रमाणभावमश्चति, तजनितसप्तधर्मविषयकसंस्कारवतश पुंसः प्रतिनिय