________________ मुनिशिवानन्दविजयविरचित ॥अथ प्रशस्तिः // चन्द्रज्योत्स्नाविशदविमले, श्रीतपागच्छसंज्ञे, गच्छे धुर्या विमलचरिताः, सर्वतन्त्रस्वतन्त्राः // वन्द्या विश्वे नरपपतिमुखैः, प्रौढसाम्राज्यभाजो, जीयासुस्ते विजयपदयुग-नेमिसूरीशवर्याः // 1 // तेषां विजयिनि पट्टे, सिद्धान्ते गीपतिप्रभा विदिताः न्यायविशारदबिरुदा, विजयोदयसूरिपा भान्ति / / 2 / तेषां पट्टे, पूज्या:, कविरत्नानैकगुणभृतो विबुधाः // विजयन्ते परवादिषु, गजेषु पञ्चानना नूनम् // 3 // न्याये वाचस्पतय-स्सूरीशा विजयनन्दनाः सुभगाः सिद्धान्ते मार्तण्डाः, शास्त्रेषु विशारदा नित्यम् // 3 // तेषां सविजयनन्दन-सूरीणां पूज्यचरमपनानाम् / / शिष्याणुकशिवानन्द-गणिना स्वभ्यासिना सम्यक् // मुदा निक्षेपाणां नयगुणयुता तवसुभगा, कृता मीमांसेयं परममुनिवाक्यैकशरणा / / सदा मोदं धत्तां विबुधगणवंशेषु नितरां, क्षमन्तां सन्तो यजिनमतविचाराद्विरहितम् // 5 // द्वीपार्षिवेदनेत्राब्दे, श्रीवीरजिननिवृत्तेः // वीरतृतीयकल्काण-तीथौ पूर्णास्तु सिद्धिदाः // 6 // ॥इति मुनिश्रीशिवानन्दविजयगणिविराचेतेयंश्रीजैनागमप्रति दिनिक्षेपाणां नयविचाररूपंश्रीनिक्षेपमीमांसाप्रकरणम् /