________________
निक्षेपमीमांसा
थत्वम् .
नामघटत्वादिकं प्रत्येकं घटत्वावान्तरसामान्यमुपादाय च यद्घटादशक्तिप्रतिपादकाचनं तद्घटपदस्य निक्षेपविशेष:, एवं पटादिपदानामपि, सामान्यनिक्षेपक्षणन्तु स्वप्रवृत्तिनिमितावच्छेदेन स्वशक्तिप्रतिपादकवचनं निक्षेप इति, यथा च नामवटादि. सकलघटपदशक्यसाधारणमेकं नामघटत्वादिव्याः पकं घटत्वं समस्ति यदवच्छिन्नशक्तिकत्वेनैकार्थत्वं घटसदस्य, एवं पटादिपदस्यापि, तथा विष्णुसिंहेन्द्रसूर्यादिसकलह रिपद वाच्यसाधारण तद्यतिरिक्तावृत्ति नै हरिपदप्रवृत्तिनिमित्तमस्तीत्यतो हर्यादिपदानां नानार्थत्वमेव ।
केचित्तु नामघटादिषु भावघटस्यैव मुख्यघटपदवाच्यत्वाद्भावघटत्वस्य सकलभावघटसाधारणघटत्वावान्तरजातरेकत्वात्तच्छक्तिकत्वेन घटपदस्यैकार्थत्वं तथा पटादिपदस्थापि, हरिपदवाच्यस्तु भावहरिर्विष्णुः सिंहः सूर्यादिश्च विभिन्नजातीय एव, न तत्रैकं भावहरित्वमिति हरिपदस्य नानार्थत्वमिति ।
नैगमादय ऋजुसूत्रान्ताश्चत्वारोऽर्थनयास्सर्वानपि निक्षेपानभ्युपगच्छन्ति, शब्दनयस्तु भावनिवेपमेवाभ्युपगच्छतीति सैद्धान्तिकाः, ऋजुसूत्रो द्रव्यनिक्षेपं नाभ्युपगच्छतीति वादिसिद्धसेनदीवाकरमतानुसारिण इत्याद्यास्तु निक्षेपविषयका विचारा ग्रन्थान्तरतोऽवसेया इति दिक् ॥