________________
३२
मुनिशिवानन्दविजयविरचितानिक्षेपप्रवृत्तिस्यादेवेति नामाद्यन्यतमत्वेन तेषामपि ब्रहणं न्याय्यं, न च तत्तद्भेदकूटावच्छिन्नप्रतियोगिताकभेदलक्षणमन्यतमत्वं प्रत्येकं तेषामग्रहणे गृहीतुं शक्यं, न चास्मदादीनामसर्वज्ञानां तेषां ग्रहगं सम्भवतीत्यन्यतमत्वघटितलक्षणस्य दुईयत्वादेशानुपादेयत्वम् , तथापि नामघटादिषु चतुर्पु घटत्वं नामघटादयो वा यावन्तः सम्भवन्ति तेषु वा घटत्वमेकं परसामान्यं तदवन्छिने घटशक्तिप्रतिपादकं वचनं निक्षेप इति निक्षेपसामान्यलक्षणम्, यद्यपीदमापिघटादिपदभेदेन भिन्नमेवेति न निक्षेपसामान्यलक्षण तथापि पदविशेषोपादानेन तत्तत्पदविविशेरनिक्षेपसामान्यलक्षणं तद्भवत्येव, यदि च घटत्वं नामघटादिसाधारणमुपादाय घटपदं घटत्वावच्छिन्ने शक्तमिति वचन नामघटो घटपदशक्य इत्यादिवचनविशेषात्मकं न भवति तदा घटत्वव्याप्यसामान्यावच्छिन्न घटपदशक्तिप्रतिपादकवचन घटपदनिशेषः तत्र व्याप्यत्वं तदभावदत्तित्वरूपमेव स्वसाधारणं निविष्ट तेन घटत्व-तवान्तरनामघटत्वादीनां घटत्वव्याप्यत्वेन सङ्ग्रहान्नाननुगमः, तदादिपदशक्यतावच्छेदकानां घटत्वादीनां यथोपलक्षणविधयैव बुद्धिस्थत्वमनुगमकमिति तस्य तदादि. पदजन्यशाब्दबोधे भान, तथवोक्तव्याप्यत्वमुपलक्षणविधयवानुगमकमिति न तस्य घटपदजन्यशाब्दबोधे भानम् यथा च बुद्धिस्थत्वेन घटत्वादीनां सर्वेषां तत्पदप्रवृचिनिमित्तानामनुगमान तदादिपदस्य नानार्थत्वम्, तथा घटपदस्यापि न नाना.