SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ निक्षेपमीमांसा वाच्यत्वसम्बन्धेन वर्त्तते, घटाकृतिरपि तदवयवसन्निवेशविशेषस्वरूपा स्वाश्रयाश्रितत्वसम्बन्धेन वर्तते, सद्भूतस्थापनात्मकप्रतिकृतिलक्षणा च सा स्वसमानाकारसनिवेशविशेषाश्रयवृत्तित्वसम्बन्धेन वर्त्तते, असद्भुतस्थापना लक्षणाऽपि सा स्वानुयोगिकसम्बन्धप्रतियोगित्वप्रकारकज्ञानविषयत्वादिलक्षणवैज्ञा. निकसम्बन्धेन वर्तते, ज्ञानश्च तत्रास्येयं प्रतिकृतिरित्येवं रूपं, तत्रेदं पदार्थस्य प्रतिकृतिरिति पदार्थे स्थाप्यस्थापनभावसम्बन्धो. भासते यथा, तथा प्रतिकृत्यनुयोगिकोक्तसम्बन्धप्रतियोगित्वमपि समानसविसंवेद्यतया भासत इति, द्रव्यश्च साक्षात्परम्परासाधारणपरिणामिपरिणामभावसम्बन्धेन तत्र वर्तते, उक्तस म्बन्धश्चोत्तरकालभाविनि भावे पूवकालवर्तिनो द्रव्यस्य परिणामत्वमुपादाय वर्तते, पूर्वकालभाविनि भावे उत्तरकालभाविनो द्रव्यस्य परिणामित्वमुपादाय वर्तते, अनुपयोगो द्रव्यमित्यनुपयोगलक्षणद्रव्यं प्रमातृस्वरूपश्च स्वाश्रितवर्तमानकालीनाभावप्रतियोग्युपयोगविषयत्वसम्बन्धेन स्वाश्रितवर्तमानोपयोगविषयत्वाभावसम्बन्धेन वा वर्तते, भावश्च तत्र तादात्म्येन वर्तते, उपयोगस्य भावरूपतायाश्च तत्रोपयुक्तात्मस्वरूपो भावस्स्वाधितोपयोगविषयत्वसम्बन्धेन वर्तते, इत्थं सत्येव भावे विभिमसम्बन्धेन वर्तमानानां नामादीनां विभिन्न निक्षेपप्रयोजकत्वं तथा च भावे विभिन्नसम्बन्धेन वर्तमानं नामादिचतुष्टयमुपा. (ग्य यथा निक्षेपप्रवृत्तिस्तथाभावेऽनन्ता एव धर्माः प्रतिनि. पतस्वस्व सम्बन्धविशेषेण वर्तन्त इति तादृशधर्मानुपादायाऽपि खJAYEN.
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy