________________
मुनिशिवानन्दविजयविरचितामपि सुवर्णादिरूप समस्त्येव, इत्येवं परिणामवादो जैनस्य, सायस्य तु प्रकृतिर्बुद्धिरूपेण परिणमते बुद्धिरहंकाररूपेणेत्येवं पूर्वपूर्वस्योत्तरोत्तररूपेण परिणाम इति, न च बुद्धिदशायां प्रकृतेः स्वरूपेणावस्थानम् , यतः सवरजस्तमसां साम्यावस्था प्रकृतिः, सा कथं सच्चादिगुणोपचयापचयावस्थायां बुध्ध्यादिरूपायां स्यात् , न चैवं सति पूर्वापरपर्यायानुगामित्वाभावाद् दव्यरूपाताऽपि प्रकृतेविलीयेत ततश्च द्रव्यनिक्षेपमूलकत्वं भज्ये: तेति वाच्यं, त्रिगुणस्वरूपतामात्रमुपादायैव तत्र द्रव्यरूपतोपगमात् , त्रिगुणरूपता चान्त्यविकृतावपि, यत उक्तम् , - "यथै कैव स्त्री रूपयौवनलावण्यकुलशीलसम्पन्ना स्वामिनं सुखा. करोति तत्कस्य हेतोः?, तम्पति सत्वगुणसमुद्भवात् , सपत्नीदुःखाकरोति तत्कस्य हेतोः?, ताः प्रति तस्या रजोगुणसमुद्भ. वात् , जनान्तरम विन्दमानं मोहयति तम्प्रति तस्यास्तमोगुण
समुद्भवात् ” इति, वेदान्त्यभ्युपगतवादोऽपि न जैनपरि: णामयादसमशीलः, तत्र यद्यपि जगतो मायापरिणामरूपतावादस्समस्ति परिणामचोपादान समसत्ताकोपादेयाविर्भाव इति परिणामरूपतामात्रेण तावन्मात्रे साम्यमाभासते तथापि साङ्रव्यदर्शित दिशा परिणम्यपरिणमनभावोऽत्रापि, परमाणुवादमुररीकृत्यं च जैनस्य परिणामवादो नैवं वेदान्तिनः । ___ अयमभिप्रायः यद्यपि पञ्चीकरणप्रक्रियया सूक्ष्मतन्मात्राणां स्थूलभूतरूपपरिणामे अन्योन्यसम्मेलनापेक्षामायावादेऽपि विद्यते, तथापि मायाया यत्प्रथमतो विजातीयसूक्ष्मतन्मात्रारूपेण स्वन्यनपरिणामवता परिणमनं न तत्र सजातीयांन्तरसम्मेलने