________________
२७
निक्षेपमीमांसा विभजनापेक्षा, जनानां तु परमाणोः प्रथमतः स्कन्धात्मनापरिणमने सजातीयान्तरसम्मेलनस्य स्कन्धान्तर्गतस्य तु अप्रदेशाणुरूपतया परिणमने विभागस्य नियमेनापेक्षणादिति, विवर्तस्तु उपादानविषमसत्ताककार्यापत्तिरूपोऽत्यन्तं विविक्तः
विवर्त्तवादे च ब्रह्मेव जगद्रुपेणावभासते रज्जुरिव सर्पमालाधात्मना, तथा च कल्पितस्य जगतोऽधिष्ठानभूतब्रह्मसत्तातिरिक्तसत्ताकत्वाभाव एव ब्रह्मानुवेधः (ब्रह्मणो जगति नानारूपेऽनुगमनम् ) तत एव च द्रव्यरूपता ब्रह्मणः, न च नैयायि. कामिमतसत्तासम्बन्धात् सत्वं घटादेः कुतो नेति प्रष्टव्यम् , सन्घटः सन्घट इत्यादिप्रतीतिरेव सत्तासाक्षिणी, सा चातिरि.. क्तसत्ता सत्सम्बन्धकल्पनागौरवाद्विभ्यन्ती सत्स्वरूपब्रह्मतादा. त्म्यमेव घटादीनामवगाहते, एवमिष्टो घट इत्यादिप्रतीत्यानन्दस्वरूपब्रह्मतादात्म्य, ज्ञातो घट इत्यादिप्रतीत्या चैतन्यलक्षणब्रह्मतादात्म्यं च भासत इत्यनुगामिसच्चिदानन्दात्मकरूपत्रययोगो जगति ब्रह्मौपाधिकः, नामरूपात्मकाविद्यकरूपतययोगस्तु स्वतः, अत एवोक्तपञ्चरूपात्मकं जगद् गीयते, तद्विवेकायोक्तम्-- "सञ्चित्सुखात्मकं ब्रह्म, नामरूपात्मकंजगत।" इति,
भावनिक्षेपाभ्युपगन्ता नयोऽपि भावनिक्षेपः, स च सर्व स्य वस्तुनो भावरूपतामेवानुशास्ति प्रमाणयति च-सर्व वस्तु भावस्वरूपं भावरूपतामुपादायैव कार्यकारित्वात . भावस्वरूपवदित्यनुमानम् , अस्यायमभिप्रायः,-नहि शतकत्व