________________
निक्षेपमीमांसा पन्नस्यैव तत्तद्रव्यस्य तत्तदवस्थाकार्यकारित्वाम्युपगमात् , न चावस्थावस्थातुरन्या, तत्त्वे तस्येयमवस्थेति प्रतीयमानसम्बन्धस्यैवाघटनात् , नत्वभेदे षष्ठयर्थसम्बन्धानुपपत्तिः घटस्य स्वरूपं राहोः शिर इतिवदुपपत्तेः, न च भेदेऽपि राज्ञः पुरुष इतिवत्सम्बन्धोपपत्तिरिति साम्प्रतम् , राजानमन्तरेण पुरुषोपलब्धिवन्मृदाद्यन्तरेण घटायुपलब्धेरभागत् , यत्र यदनुगामि तत्र तद्र्व्यमित्येवं सर्वत्र द्रव्यस्वरूपं प्रतिपत्तव्यम् , वर्तमान त्वेनाभिमतो घटादिः वर्तमानकालेऽपि न वर्तते पूर्वापरकालावृत्तित्वात् , यन्नैवं तन्नैवं यथा द्रव्यम् , अनेन त्रिकाला. वृतित्वे आविर्भावस्य शशशृङ्गादिवदलीकत्वन्तस्य सिध्ध्यति अत एवोक्तम्-- " न व्यक्तेः पूर्वमस्त्येव, न पश्चाच्चापि नाशतः। आदावन्ते च यन्नास्ति, वर्तमानेऽपि तत्तथा ॥१॥ अव्यक्तादीनि भुतानि, व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव, तत्र का परिदेवना ॥२॥ अदर्शनादापतितः पुनश्चादर्शनं गतः। नासो तव न तस्यत्वं वृथाका परिदेवना॥३॥" इति
द्रव्यनिक्षेपप्रभवः परिणामवादः सत्कार्यवादपर्यवसायी साङ्ख्यस्य, विवर्तवादश्चानिर्वचनीयतावादपर्यवसन्नो वेदान्तिनः, साङ्ख्यस्य च परिणामवादोन जैनाभ्युपगतपरिणामवादादभिन्नः, यदेवानुगामि द्रव्यं सुवर्णादि तदेव कटकादिपूर्वपरिणामं परित्यज्य कुण्डलादिरूपेण परिणमते तदवस्थाया