________________
मुनिशिवानन्दविजयविरचितायस्य मेदसम्बलितामेदलक्षणकथश्चित्तादात्म्यसम्बन्धनियतका भ्युपगमात् , न च शब्दार्थयोर्भदेनिमित्तस्वस्वासाधारणरूपं समस्ति ततो भेदोऽस्तु, अनुगामि तु किमप्य भेदनिमित्तं नालोक्यते, सत्चप्रमेयत्वादेरनुगामिनो निमित्तत्वे घटशब्दस्य पटरूपार्थेन सहाभेदः स्यादिति वाच्यं, तुल्यनामधेयत्वस्यातिप्रङ्गानापादकस्याभेदनिमित्तत्वात् , वस्तुतो वाच्ये वाच्यतासक्तिः, बाचके च वाचकताशक्तिः, तादृशशक्तिद्वयपिण्डितरूपो नृसिहाकार एव वाच्यवाचकभावलक्षणसम्बन्धोऽपि वाच्यपाचकाभ्यामभिन्न इति वाच्योत्पत्तिकालेवाच्यताशक्त्यात्मना उत्पद्यते स वाचकोत्पत्तिकाले वाचकताशयान्मनेति तदभिन्ना. भिन्नस्य तदभिन्नत्वमिति नियमेन नामाभिन्नोक्तसम्बन्धाभिन्न त्वादर्थस्य नामाभिन्नत्वमिति स्याद्वादे नामनिक्षेपाभिमत नामार्थदात्म्यं घटत एव, वेदान्त्यभिमतजगत्स्वरूपे च स्थापनानिक्षेपामिमताऽऽकृतितादात्म्यं स्वरूपत एवोत्पद्यत इति ध्येयम् ।
द्रव्यनिक्षेपाम्युगन्ता नयोऽपि द्रव्यनिक्षेपः स च सर्वस्य वस्तुनो द्रव्यरूपतामेवाभ्युपगच्छति प्रमाणयति च-घटादिकं वस्तु मृदादिद्रव्यरूपमेव तद्व्यतिरेके. णानुपलभ्यमानत्वात् , यद्यद्वयतिरेकेग नोपलभ्यते तत्तद्रू यथा घटस्य स्वरूपं घटरूपमिति, अत्रापि घटादिकार्यस्य जला. हरणादेम॒त्पिण्डाद्यवस्थायां न प्रसङ्गः तत्तदवस्थाविशेषभावा