________________
निक्षेपमीमांसा
२३
रिक्तशक्तिलक्षणसम्बन्धाभ्युपगमपराहता, मृच्वसुवर्णत्वादिसाङ्कर्यादेकं घटत्वं जातिरूपं द्रव्यरूपे मृद्घटादौ नाभ्युपगन्तुं शक्यं मृच्वव्याप्यं घटत्वमन्यदन्यच्च सुवर्णत्वव्याप्यं घटत्वभित्येवं नानारूपं घटत्वमिति कल्पनञ्च साधकाभावादेव न सम्भवति, अनुगत प्रतीतिनिमित्ततयैव च जातिकल्पनं मृद्घटसुवर्णघटपाषाणाघटादिषु अयं घटोऽयं घट इत्यनुगतप्रतीतिर्नाननुगतोक्तेन केनापि घटत्वेनेत्यवयवसन्निवेशरूपसंस्थान विशेषवृत्येव घटत्वमिति तदाश्रयः संस्थानविशेष एव घटो न द्रव्यम्, जलाहरणाद्यर्थक्रियासमर्थत्वमपि तस्यवेति ।
भावरूपत्वमपि तस्यैव, अर्थक्रियासामथ्य विच्छेदकरूपवत एव भावत्वात्, अनया दिशा कपालकपालिकादीनामप्याकृतिरूपतावसेया, सूक्ष्मेक्षिकायां परमाणुप्रचयसन्निवेशविशेषरूपतायामेव घटादेः पर्यवसानम् ।
नामस्थापनानिक्षेप द्वय मूलकश्च वेदान्तिनां जगतो नामरूपात्मकतावादः, यदुक्तम् - " सच्चित्सुखात्मकं ब्रह्म, नामरूपात्मकं जगत् इति न चैवं निक्षेपद्वयाभ्युपगमे स्याद्वाद इव तयोर्निमित्तभेदापेक्षया विरोधपरिहारेणावस्थानस्य स्वीकरणे एकान्तवादताहानिरिति वाच्यं, नामनयेन हि नामतादात्म्येन नामरूपताऽभ्युपगता, वेदान्तिना तु नामनिरूप्यत्वेन नामरूपताऽऽदृता नाम्नञ्चाधन सह न तादात्म्येन सम्बद्धता किन्तु वाच्यवाचकभावेन एवेति तत्रापि वस्तुगत्या नामनिक्षेपप्रवेशो नास्तीति वाच्यम्, स्याद्वादे तु सम्बन्धमा