________________
मुनिशिवानन्दविजयविरचितामलम् , घटोऽपि पृथुबुध्नोदराद्याकृति रूप एव जलाहरणाद्यर्थक्रियानिमित्ततामासादयति, यस्यापि वस्तुनो विशेषतः कश्चिदाकारो न शृङ्गग्राहिकया निर्देष्टुं शक्यते तदप्यसद्भूतस्थापनामलम्ब्यैव व्यवहारवीथीमवतरति, यथा गणनाव्यवहारे निर्धारितामुकसङ्ख्यकपणाणककार्षापणरूप्यकादेः धान्यादिमूल्यदानादिना निश्शेषतो विविच्योपयोगम्प्रदविशिष्टाभावावगतये० एतादशाकार एव स्थाप्यत इत्येवं स्थापनानिक्षेपः परिष्कनुं शक्यः यतदभिप्रायमाश्रित्यवोच्यते-- "कुलालव्यापतेः पूर्वो, यावानंऽशः स नो घटः । पश्चाच पृथुबुध्नादि-मत्त्वे युक्ताऽस्य कुम्भता ॥१॥"
इति, एतन्मूलकश्च नैयायिकादीनामवयविवाद इत्थं । प्रसाध्याङ्गको भवति, तथाहि-अवयवव्यतिरिक्तोऽवयवी तैरिष्टो द्रव्यरूपतया परन्तु समवायिकारणत्वलक्षणं पारिभाषिकमेव द्रव्यत्वं तैरुपगतं न तु पूर्वापरपर्यायानुगामिस्थिरभावलक्षणं, द्रवति ताँस्तान्पर्यायानागछतीति व्युत्पन्यवधृत स्वरूप पारमार्थिकद्रव्यत्वमूर्धातासामान्यापरपर्यायम , पारिभाषिकद्रव्यरूपताऽप्यस्य तदा स्यादवयविरूपतायां यदि यावदवयवगुरूत्वादधिकं गुरुत्वमत्र नमनोनमनादिकार्यानुमेयं स्यात् , यतोऽवयविसत्ताकालेऽप्यवयवसत्ता पृथक्तयाऽवयविवादे स्वीकृताऽस्ति, आकृतिरूपतायां तु गुणे गुणानङ्गीकारान्न तत्रातिरिक्तगुरुत्वादिकम् , उक्तन्यायेनैव कपालकपालिकादीनामपि न द्रव्यरूपता नामरूपता च नामाथेयोस्तादात्म्याति