________________
निक्षेपमीमांसा कदापि नोपलभ्यते, उपलभ्मे वा स्वलक्षणमेवासौ जह्याद , अत एवाचार्यदेशीयः द्रव्ये द्रव्यनिशेपस्य द्रव्यद्रव्य इत्येवंरूपस्य शून्यतामेभ्युपगच्छति, गुणपर्यायसहितश्च पर्यायाकृतिरूपतयैवावभासते, सावयवानां च पुद्गलद्रव्याणामवयवसन्निवेशविशेषरूपाकृतिरूपतयैवोपलम्भ इति तेषामाकृतिरूपता निराबाधैव परमाणोरप्यन्यादश आकारो वस्तुत्वादेव पक्षधर्मताबलादास्थेयः धर्माधर्माकाशजीवानां सप्रदेशत्वादाकृतिरूपतयैवावभासः, प्रदेशास्तु तदीयाः प्रदेशिवियुता न भवन्त्येवेति प्रदेश्याकृतिस्वरूपसन्निविष्टतैव तेषां, गुणाश्च स्वाश्रयद्रव्याजहवृत्त्य इति तदाकारेणैवाकावन्तः, नीलाद्याकारप्र. तीतिविषयत्वाच नीलायाकारवन्तः, सामान्यविशेषौ चन स्वतन्त्रौ किन्तु वस्तुस्वरूपसन्निविष्टाविति वस्तुनो घटादेः साकारत्वात्तावप्याकृतिरूपता स्वीकुरुतः, न च ज्ञानस्य साकारोपयोगरूपत्वात्साकारत्वेऽपि दर्शनस्य निराकारोपयोगरूपत्वान्नाकृतिरूपतेति वाच्यं सत्र निराकारत्वं नाम नाकाररहितस्वं किन्तु सामान्यविषयत्वमेवेति विशेषाकारराहित्येऽपि सामान्याकारता तत्राप्यस्त्येव अन्यथा वस्तुत्वव्यापकाकाररूपत्वामाने वस्तुत्वमेव तस्य न स्यात् , उत्पादव्ययध्रौव्यलक्षणसवमप्याकारमुपादायैव घटते, यथा सुवर्ण कुण्डलाकारतयोत्पन्नमा दाकाररूपेण विनष्टं स्वस्वरूपाकारेण स्थितमिति, अर्थक्रियाकारित्वलक्षणं सत्रमध्याकाररूपतायामेव घटते, नहि मृद्दव्यं पिण्डस्थासकोशाद्याकारतामनासाद्य घटरूपोपादेयकार्य विधात