________________
मुनिशिवानन्दविजयविरचिताबस्तुनः शन्दरूपता, तन्मते ज्ञानमात्रमेव शब्द सङ्घटितमूत्यैवाभासते निर्विकल्पकमपि किमपित्येवमव्यक्तशब्दाकारारुषितमेघसंवेद्यते अत एवोक्त"न सोऽस्ति प्रत्ययो लोके, यः शब्दानुगमादते । अनुविद्धमिव ज्ञान, सर्व शन्देन भासते ॥१॥ वाग्रूपता चेव्युत्क्रामे, दवबोधस्य शाश्वती । न प्रकाशःप्रकाशेत, सा हि प्रत्यवमर्शिनी ॥२।। इति
एवं स्थापनानिशेपाभ्युपगन्ता नयोऽपि स्थापनानिक्षेपः, स च सर्वस्य वस्तुनः आकाररूपतां शास्ति, प्रमाणयति चानुमानम् , तथाहि---घटादिकं वस्तु पृथुबुध्नोदराद्याकाररूपं, तद्ग्रहणे सत्येव गृह्यमाणत्वात् , तद्ग्रहणमन्तरेणागृह्यमाणत्वाद्वा, अत्रापि व्यासिदष्टान्तादिकं पूर्ववद्भावनीयम् इदमस्यैदम्पर्यम् ,-न हि घटादिकं नाम धकारोत्तराकारोत्तरटकारोत्तरात्वरूपानुपूर्वीरूपस्वाकारमन्तरेण क्वचिदपि प्रतीताववभासते, वाक्यमपि नीलो घट इत्यादिरूपं स्वन्तनीलादिपदोत्तरस्वन्तघटादिपदत्वरूपाकाहास्वरूपाकारारुषितमेवावभासते, एवं प्रकरणपरिच्छेदाध्यायादिकं, किंबहुना एकोऽप्यकारादिवर्णः स्वव्यञ्जकलिप्यादिप्रतिनियतारोपिताकारारुषित एव बालानां प्रतीतिपथमधिरोहति, भाषावर्गणापुद्गलारब्धस्तु विभिन्नाकारमन्तरेणासङ्कीर्णस्वभावतया प्रतीतिपथं कथमारोहे ? द्रव्यमपि मृदादिगुणपर्यायविकलं