________________
निक्षेपमीमांसा तु तदवस्थारूपतयैव सत्त्वं, न तु स्वातन्त्र्येण, तथा सति नामावगमव्यतिरेकेणापि तदवगमः प्रसज्येत, अतो नामसत्ताव्यतिरिक्तसत्ताकत्वाभाव एवार्थस्य, एतदभिप्रायेणैव चोच्यते " व्यक्तौ नष्टेऽपि नामैतन्नृवत्रष्वनुवर्तते । तेन नाम्ना निरूप्यत्वाद्वयक्तं तद्रूपमुच्यते” इति, यच्चनामोच्चारण. कालेऽर्थकार्यमापादित तत्तदा स्याद्यदि यद्यत्कार्य तत्तस्य सर्वास्ववस्थासु भवतीति नियमः स्यात् , न चैवं, तथा सति घटरूपार्थस्य जलाहरणादिकार्य न कदाचिदपि विरमेत, योग्यता तु सहकारिपुरस्कारेण यथा घटरूपार्थस्य, तथा तदात्मकावस्थालक्षणादिसहकारिपुरस्कारेण नाम्नोऽपि, तथा च तत्सहकारिसम्पादनार्थमायासान्तरमपि न निष्फलम् , न धर्थांवस्थानदेशे गुमगुमायमानताप्रसङ्गोऽपि तदवस्थायां सूक्ष्मरूपेणैवावस्थानस्याभ्युपगम्यत्वात् , न चैवमुक्तदिशा दोषपरिहारेऽर्थरूपतैव शब्दस्यास्तु शब्द एवार्थाव्यतिरिक्तो मास्त्विति वाच्यं,यथाहि तद्घटरूपार्थविरहकाले तद्घटनाम्नः सवमित्यनुगामित्वं तस्य, नैव तद्घटनामविरहकाले तद्घटरूपार्थस्य सत्त्वमित्यर्थस्याननुगामित्वाच्छब्दस्य चानुगामित्वात, अनुगाम्यननुगामिनोर्मध्येऽनुगामिसत्तवाहता भवत्यनुगामिनः-यथा रज्जुसपैमालादिष्वनुगामिन इदमर्थस्येत्येवं नीत्या नामनिक्षेपमतं परिष्कतुं सुकरम् , नामनिक्षेपाच्चाविर्भावो भतृहरिमतस्य, तन्मते चानाद्यनक्षरं शब्दब्रह्मैवोकारस्वरूपं जगत उपादानम् , उपादेयायोपादानस्वरूपतयोपादानसत्तेवोपादेयसत्तेति सर्वस्य