SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ मुनिशिवानन्दविजयविरचितानयोऽपि नामनिक्षेप उच्यते, स वस्तुमात्रस्य नामस्वरूपत्वमभ्युपगच्छति, प्रमाणपति चात्रानुमानमिदम् , - अर्थो नामस्वरूपः, नामप्रतीतो सत्यामेव प्रतियमानत्वाव, नाम्ना सहैव प्रतीयमानत्वाद्वा, नामस्वरूपवत् , यत्प्रतीतो सत्या. मेव यत्प्रतीयते तत्तत्स्वरूपं यथामृत्प्रतीतो सत्यामेव प्रतीयमानो घटो मृत्स्वरूपमेवेति सामान्यव्याप्तिः. न चार्थस्य नामरूपत्वं पदार्थस्य यत्कार्य तत्तन्नाम्नोऽपि स्यादित्यग्न्यादिशब्दोचारणे मुखदाहादिकं स्यादर्थावस्थानदेशे गुमशुमायमानता च स्यात् , रत्नादिशब्दोच्चारणादेव रत्नादिप्राप्तौ न तदर्थ प्रयासान्तरं कोऽप्यातिष्टेदिति वाच्यम्, यथाहि-घटस्य मृद्रपत्वे घटस्य कार्य जलाहरणादि मृत्कार्य भवति नहि तन्मृदो व्यतिरिक्तादेव जातं येन मृत्कार्य न स्यात, एवं घटरूपार्थस्य घटनामरूपत्वे घटकार्यमपि घटनामकार्य भवत्यैव, यथा च घटस्य पूर्वकाले उत्तरकाले च मुद एव सत्त्वेन घटकालेऽपि तस्या एव सत्वं घटस्य तु तदवस्थास्वरूपतयैव सत्वं न तु स्वातन्त्र्येण, तथा सति मृद्वयतिरेकेणापि तदुपलब्धिः स्यात्, अतो मृन्सत्ता व्यतिरिक्तसत्ताकत्वाभाव एव घटस्य, एतदभिप्रायेणेयोच्यते-- " आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा" इति तथैव घटरूपार्थस्य पूर्वकाले उत्तरकाले च घटनाम्न एवं सत्वेन घटरूपार्थकालेऽपि च घटनाम्न एव सत्त्वं घटरूपार्थस्य
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy