________________
निक्षेपमीमांसा
मात्रस्य घटादिपदादेववहितपूर्ववर्ति तन्नामपदादि तद्वस्तुत्वव्यापकसत्त्वादिधर्मावच्छिन्नाशक्तं सत् विशेष्यवस्तुस्वरूप. विशेषाविर्भावनप्रत्यलमपि यतो विशेष्यवस्तु घटादि तस्य तस्य यः स्वरूपविशेषो नामघटादिः तदाविर्भावनप्रत्यलत्वं घटाद्यव्यवहितपूर्तिनामपदे समस्ति तथाभूतं वचनं नामपदं तत्वं नामपदे समस्तीति लक्षणसमन्वयः । एवं स्थापनाद्रव्यभावेष्वपि, नामघट इत्यादौ कर्मधारयसमास एव नामनिक्षेपप्रवृत्तिरिति बोधयितुं कर्मधारयवृत्तिसमभिव्यहाराश्रयेत्युक्तम्, मृद्घट इत्यत्र मृत्पदस्य न निक्षेपत्वमित्यावेदयितुं विशेष्य. भावापन्नवस्त्वभिधायकपदमात्राव्यवहितपूर्ववर्तीत्यत्राशेषार्थकस्य मात्रपदस्य निवेशः, नहि नाम्न इव मृत्पदस्याशेषविशेष्यपदाव्यवहितपूर्ववर्त्तिता, तत्वादीनां विशेष्यवाचकपदत्वे तदव्यवहितपूर्ववर्तित्वस्य मृत्पदेऽभावात् , वस्तुत्वव्यापकधर्मा. वच्छिन्नाशक्तेति विशेषणात् सद्घटादिघट के सत्यदे न निक्षेपत्वप्रसङ्गः एवं ज्ञेयघटादाबपि. विशेष्यवस्तुस्वरूपविशेषाविर्भावनप्रत्यलमित्यनेन अन्यत्र कर्मधारये यथा विशेष्यवाचकपदाव्यवहितपूर्ववर्तिविशेषणपदेन विशेष्यतावच्छेदकधर्मभिन्नप्रकारतावच्छेदकावच्छिन्नो बोध्यते नैवमत्र किन्तु विशेषणविशेष्यप. दाभ्यां सम्भूयैकविशेष्यतावच्छेदकधर्मावच्छिन्नस्यैवावबोधः ।
- यद्यपि नामनिक्षेपादिवचनविशेषोऽज्ञत्वादेव न कस्यचिदर्थस्याभ्युपगन्ता प्रतिक्षेप्ता वा तथापि नामनिक्षेपाभ्युपगन्ता