SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ अतिशुद्धनगमभिप्रायविशेषेण तूपचारामिश्रितेन विद्यमाननिवासानुभवनसमानकालीनतदाधारत्वावलम्बनतोवसन् वसती. त्युत्तरप्रवृत्तिरिति, यद्यप्याधारताऽऽधारस्वरूपा संयोगस्वरूपा वा गृहकोण इव लोकेऽप्येकक्षेत्रतयाऽविशिष्टेति किमत्र विशुद्वितारतम्यं, न पत्र प्रस्थकन्यायवद्गौणमुख्यविषयकृतो. विशेषोऽस्तीति, तथापि स्थूलदृष्टौ विशेषानवमासेऽपि सूक्ष्मेक्षिकायां विशेषोऽवभासत एव, यतो देवदत्तस्य गृहकोणक्षेत्रेण यस्संयोगस्स न पराभिमतो गुणः, किन्तु पर्याय एक, तद्रूपेण परिणतस्य गृहकोणक्षेत्रस्य बह्वाकाशव्यापित्वाल्पाकाशव्यापित्वलक्षणविरुद्धधर्माभ्यासतोऽखण्डक्षेत्राल्लोकादितस्संयोगविशेषरूपेण परिणतात्पृथक्कृतस्य विशुद्धिप्रकपिकर्षसम्भवात् , कृत्स्नलोके निरुपचरितेऽवसतो देवदत्त. स्योपचारतो लोकपदात्तद्देशोपस्थितौ सत्यामेव लोके वसामीत्यत्रान्वयोपपत्तिः, वृक्ष कपिसंयोग-इत्यादावपि वृक्षपदस्य तद्देशे उपचारत एवान्वयोपपत्तिरित्युपचाराश्रयणेनान्वये विशुद्धयपकर्षः, उपचारानाश्रयणेनान्वये तु विशुद्धा. स्कर्षः, प्रयोगे तु क्र इत्याद्याकाशाबाहुल्याबाहुल्यकृतं विशुद्धयविशुद्धिवैचित्र्यं, लोके वसतीत्युक्तो लोके क्व वसतीत्याकासा समुपजायते तन्निवृत्त्यर्थं तिर्यग्लोके वसतीत्युक्तावपि तियग्लोके क्य वसतीत्याकाङ्क्षा भवत्येव, तनिवृत्यर्थ जम्बूद्वीपे वसतीत्युक्तावपि क्वेत्याकाङ्का जायतएव, एवमग्रेऽपि, एवञ्च प्रथमतो लोके वसतीत्युक्तौ निराकासबोधं यावद्यावत्य
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy