________________
( ११४ )
स्मकत्वाभावाद् घटादिव्यपदेशप्रसङ्गोऽपि न भवतीति । ऋजुसूत्रस्तु मापकस्य काष्ठनिर्मित प्रस्थकस्याभावे परिच्छेद्यस्थ माध्यस्य धान्यस्याभावे चैतत्परिमितं धान्यमित्याकारक परि च्छेदलक्षण मानोपपत्तिर्न भवतीत्यतो निष्पन्नस्वरूपोऽर्थक्रिया हेतुः प्रस्थकः तत्परिच्छिन्नं धान्यमित्युभयं प्रस्थक इत्याह करणत्वविवक्षा-कर्मत्वविवक्षाभेदादेकस्यापि धान्यस्योभयरूपानुप्रवेशतः प्रस्थकेन धान्यं मीयत इत्यस्योपपत्तिरिति । प्रस्थक विषये समानाभिप्रायाइशब्दसमभिरूदैवम्भूताख्यास्त्रयोऽपि शब्दनयाः प्रस्थकेन धान्यं मीयते इत्याकारकधान्यमाननिश्रयलक्षणप्रयोजनाभिज्ञस्वरूपप्रस्थकाधिकारज्ञगतात्प्रस्थकनिर्माणकर्तुरूपप्रस्थकर्तृगताद्वा प्रस्थकोपयोगादतिरिक्तं प्रस्थकं नाङ्गीकुर्वन्ति किन्तुक्तोपयोग एव प्रस्थक इत्यामनन्ति ।
वसतिनिदर्शनेन नैगमादीनां विशुद्धितारतम्यं यथा वसतिराधारता, सा च यथोत्तरशुद्धानां नैगमभेदानां लोके तिर्यग्लोके जम्बूद्वीपे भरतक्षेत्रे तद्दिक्षिणार्धे मध्यखण्डे पाटलिपुत्रे देवदत्तगृहे तन्मध्यगृहे चावसेया, अतिशुद्धर्नंग मस्तु वसन् वसतीत्याह, इदमत्रै दम्पर्यम् - देवदत्तो वसतीत्युक्ते, कुत्र वसतीति जिज्ञासायां नैगमाभिप्रायविशेषाश्रयणेन लोके देवदत्तो वसतीति विपुलाधारमुपादायोत्तरप्रवृत्तिः, क्रमेणोत्तरोत्तरसङ्कुचिताधारावलम्बनेन विशुद्धविशुद्ध तरनैगमाभिप्राय विशेष तस्तिर्यग्लोके देवदत्तो वसतीत्याद्युत्तरप्रवृत्तिः