SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ( ११३) पर्यायाविर्भावेषु यथोतरशुद्वा नैगममेदाः, अतिशुद्धनैगमस्तु आकुहितनामानं प्रस्थकमाह, प्रस्थकहेतुकाष्ठानयनाथं गच्छन् पुरुषः केनचित्कि करोषीति पृष्ठः प्रस्थकं करोमीत्येव वर्तते, एवं क्षगनादिक्रियाकाले प्रस्थकपर्यायाविर्भावकालेऽपि च, तत्र वनगमनादिकं न प्रस्थकः, किन्तु परम्परया प्रस्थकनिमित्तम् , पारम्पर्येऽपि च विप्रकर्षसन्निकर्षतारतम्याच्छुद्धितारतम्यं नैगमाभिप्रायविशेषाणाम् , तत्र वनगमनादौ प्रस्थकत्वाभावेऽप्युपचारात्प्रस्थकव्यपदेश इत्यशुद्धता बोध्या, प्रस्थकपर्यायनिष्पत्य नन्तरं निर्णीतप्रामाण्यकान्यप्रस्थकमितधान्यान्यूनाधिकावस्थानपरीक्षणतः प्रस्थक इति नामकं यदापामरप्रसिद्धं तत्प्रथस्कमनुपचरित गृह्णन नैगमाभिप्रायोऽतिविशद्ध इति। व्यवहारेऽप्यक्तदिशैव प्रस्थके भावनाऽवसेया। सङ्ग्रहस्तु नाशुद्धः किन्तु शुद्ध एव ततो यथा नैगमव्यवहारौ परम्परया प्रस्थककारणे वनगमनादौ प्रस्थकलक्षणकार्योपचारं कृत्वा प्रस्थकव्यपदेशं कुरुतः तथा तत्र नायं प्रस्थकव्यपदेशं करोति, निष्पन्नेऽपि प्रस्थकस्वरूपे धान्यमापनलक्षणस्वकार्याकरणकाले प्रस्थकोऽयमिति नव्यपदिशति, किन्तु धान्यमापनविशेषलक्षणक्रियाकरणवेलायामेव प्रस्थकोऽयमिति स्वीकरोति, असाधारणतदथक्रियाकारित्वस्यैव तदात्मकत्वप्रयोजकत्वेन धान्यमापनकार्याकरणकाले यथा न तत्र प्रस्थकव्यपदेशस्तथा तत्र घटादिकार्यजलानयनादिकार्यकारित्वस्याप्यभावेन घटाद्या
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy