________________
( १९२) भेदप्रकारकबोधार्थ कर्मधारयसमासस्यैवाश्रयणीयत्वेन धर्मश्वासौ प्रदेशो धर्मप्रदेशःअधर्मश्चासौ प्रदेशोऽधर्मप्रदेश इत्याद्येव वक्तव्यमिति, एवम्भूतस्तु ब्रूते धर्मादीनां देशप्रदेशौ धर्मादिभिर्भिन्नावभिन्नौ वा, आये धर्मस्य देशो धर्मस्य प्रदेश इति षष्ठयर्थस्य सम्बन्धस्यानुपपत्तिः भेदे सम्बन्धायोगात् , अन्यथा भिन्नत्वाविशेषादधर्मास्तिकायादिप्रदेशतयाऽभ्युपगतस्यापि धर्मस्य प्रदेश इति व्यवहारभाजनत्वं स्यात् , द्वितीये घटो घट इतिवद्धर्मः प्रदेश इति सहोक्त्यनुपपत्तिरतो देशप्रदेशकल्पनारहितमखण्डमेव वस्त्वभिघातव्यम् , ननु 'आकाशे विन्ध्याद्रिवर्तते हिमालयोऽपि,' इत्येवं लोके प्रतीयमानस्य तयोरसामानाधिकरण्यस्योपपत्तये यत्प्रदेशावच्छेदेनाकाशे किध्याद्रिस्तलादेशावच्छेदेन न हिमालयो यत्मदेशावच्छेदेन तत्र हिमाचलो न तत्प्रदेशावच्छेदेन विन्ध्याचल इत्यस्योपगन्तव्यत्वेन विरुद्धयोविन्ध्यतदभावयोहिमतदभावयोविन्ध्य. हिमयोश्चैकत्राकाशे सत्त्वोपपादनायाकाशस्य धर्मादेश्च देशप्रदेशसिद्धिः, तत्सम्बन्धिन एव तवृतिधर्मावच्छेदकत्वमिति नियमेन देशप्रदेशादेरवच्छेदकतया सिद्धस्सममाकाशादेस्सम्ब न्धसिद्धिरपीति चेन् , न, आकाशे विन्ध्यादयो वर्तन्त इत्यस्यैवानभ्युपगमात, तादात्म्यतदुत्पत्त्यन्यतरानुपपत्त्या परेण समं सम्बन्धस्यैवानभ्युपगमादिति ।
मगधदेशप्रसिद्धो धान्यमानविशेषः प्रस्थकः, तदर्थ वनगमन-दारुच्छेदन-क्षणनोकिरण-लेखन-प्रस्थक