SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ( १९१) यो धर्मास्तिकायस्य प्रदेश इत्येवं व्यपदेश्यस्स एव तदन्यथा विकल्पदशायां न धर्मास्तिकायस्य प्रदेश इत्येवं व्यपदेश्य इत्यतः स्याद्धर्मास्तिकायस्य प्रदेशः एतद्दिशा स्यादधर्मास्तिकायस्य प्रदेश इति भजना यथा ऋजुसूत्रसम्मता न वस्तु. परतन्त्रा किन्विच्छाप्रभवा विकल्परूपा पुरुषपरतन्त्रैव एवञ्च पुरुषेच्छाया नियन्तुमशक्यत्वान्न प्रतिनियतमुपादायैव भजनेति यं धर्मास्तिकायस्य प्रदेशं परिकल्प्य स्याधर्मास्तिकायस्य प्रदेश इति भजना, तमु गदाय स्यादधमास्तिकायस्य प्रदेश इत्याद्यापि भजना प्रसज्येतेत्यतो धर्माधर्मा. काशप्रदेशानां धर्माधर्माकाशरूपतया धर्मे धर्म इति वा प्रदेशो धर्मः अधर्मेऽधर्म इति वा प्रदेशोऽधर्मः, आकाशे आकाश इति था प्रदेश आकाश इत्येवमभिधेयम्, जीवानां स्कन्धानाचा. नन्तत्वादधिकृतैकजीवप्रदेशस्य सकलजीवात्मकत्वमधिकृतकस्कन्धप्रदेशस्य सकलस्कन्धात्मकत्वञ्च न समस्तीति जीवे जीव इति वा प्रदेशो जीवः स्कन्धे स्कन्ध इति व्यपदेशो न, किन्तु विवक्षितप्रदेशे सकलसन्तानैकदेशत्वविवक्षितसन्तानात्मकत्वप्रतिपादनाय जीवे जीव इति वा प्रदेशोनो जीवः, स्कन्धे स्कन्ध इति वा प्रदेशो नो स्कन्ध इत्येवमभिधेयम् । सम. भिरूढस्तु कथयति धर्म प्रदेशः इत्यादिवाक्यात् कुण्डे बदर इत्यादिवाक्यादिव भेदप्रतीतिप्रसङ्गभयेन 'वने तिलका ब्राह्मणे श्रोत्रिय' इत्यादौ क्वचिदेवाभेदे सप्तमी प्रयोगसम्भवेऽप्यन्यत्राधाराधेयभावबोधिका सप्तमी भेदनियतेत्यतोऽ
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy