________________
( १०६ ) प्रत्येकं भङ्गानामिति एकैकधर्ममात्रप्रतिपादकत्वलक्षणं विकलादेशत्वं सप्तानामपि भङ्गानामाश्रीयते तदा सप्तापि भा अस्तित्वनास्तित्वादिसप्तविधधर्ममात्रप्रतिपादका न त्वशेषधर्मप्रतिपादकाः सप्तापि धर्मा अनन्तधर्मात्मकस्य वस्तुनोंऽशा एवेति " प्रकृतवस्त्वंशग्राही तदितरांशाप्रतिक्षेपी अध्यवसायविशेषो नय" इति नयलक्षणयोगिसप्तविधधर्मलक्षणवस्त्वंशप्रतिपत्तिजनकत्वेन निरुक्तसप्तभ ङ्गसमाहारलक्षणा सप्तभङ्गी नयवाक्यमिति गीयते, द्रव्यार्थिकनया देशपर्यायार्थिकनय । देशतस्सप्तभङ्गया स्सकलादेशत्वविकला देशत्वप्रयुक्तप्रमाणसप्तभङ्गी नय सप्तभङ्गीत्येवं भेदव्यवस्थितिः द्रव्यार्थिकनयपर्यायार्थिकनयस्वरूपप्रतिपत्चितः सुकरा, तथा प्रत्येकं भङ्गेषु सङ्ग्रहव्यवहारादिनययोजनाऽपि सङ्ग्रहादिद्रव्यार्थिक नयावान्तर भेद-ऋजुसूत्रादिपर्यायार्थिकनयावान्तरभेदज्ञानतः सुकरेति सामान्यतो विशेषतश्च सप्तभङ्गी स्वरूपप्रतिपत्तये सामान्यतो विशेषतश्च नयस्वरूपनिरूपणं प्राचीन सूरिप्रपञ्चितमेवोपदर्श्यते ।
तथाहि - "श्रुतप्रमाणप्रतिपन्नस्यानन्तधर्मात्मिक वस्तुaisग्राही तदितरांशाप्रतिक्षेपी अध्यवसायविशेषो नयः इति" नयसामान्यलक्षणम्, श्रुतेत्याद्यंशाप्रतिक्षेपीत्यन्तस्यानुपादाने पूर्वस्य प्रकृतस्य तत्पदपरामर्थ्यस्याभावात्तदिवरांशाप्रतिक्षेपीत्यस्य स्थानेऽशाप्रतिक्षेपीत्येव