________________
( १०७) वक्तव्यं भवेत् एवञ्च दुर्नयस्यापि स्वविषयीभूतांशाप्रतिक्षेपित्वेनाध्यवसायविशेषस्वरूपत्वेन चोक्तलक्षणालिङ्गितत्वं स्यात्तदुपादाने च प्रकृतांशस्य तत्पदपरामश्यस्य सद्भावात्तदितरांशाप्रतिक्षेपीत्यस्योपादातुं शक्यत्वेन स्वविषयांशातिरिक्तांशप्रतिक्षेपिणि दुर्नये तदितरांशाप्रतिक्षेपित्वाभावान्नातिव्याप्तिः, अध्यवसायविशेषत्यत्राध्यवसायपदोपादानात्सप्तभङ्गयात्मकप्रमाणवाक्यमभवप्रदीर्घसन्तताध्यवसायैकदेशेंऽशग्राहिणि तदितरांशाप्रतिक्षेपिणि नातिव्याप्तिः वस्त्वंशस्य वस्तुत्वाभाववदध्यवसायैक देशस्याप्यध्यवसायत्वाभावात् ,प्रकृतवस्त्वंशत्वव्यापकविषयशून्यत्वलक्षणविशेषत्ववदर्थकस्य विशेषपदस्योपादानाच्च रूपादिग्राहिणि रसाद्यप्रतिक्षेपिण्यपायादिप्रत्यक्षप्रमाणे नातिव्याप्तिः, प्रत्यक्षप्रमाणस्यानन्तधात्मकवस्तुग्राहिणः प्रकृतवस्त्वंशत्वव्यापकविषयताकत्वेन तच्छ्न्यत्वाभावादिति, मुख्यतो ज्ञानलक्षणाध्यवसायविशेषस्यैव नयत्वं, नयजन्योपदेशे च नयपदोपचारानयव्यपदेश इति तत्रोक्तलक्षणस्यासत्वेऽपि नाव्याप्तिः, अलक्ष्ये लक्षणागमनस्याव्याप्तिरूपत्वाभावात् । निरुक्तलक्षणलक्षितश्च नयो द्रव्यार्थिकपर्यायार्थिकभेदेन द्विविधः तत्र"द्रव्यमात्र ग्राही नयो द्रव्यार्थिकः" इति द्रव्याथिंकनयस्य लक्षणम् , द्रव्यार्थिकनयो हि द्रव्यमेव तातिकमभ्युपगच्छति, उत्पादस्थाविर्भावमात्रत्वं विनाशस्य तिरोभावमात्रत्वं तन्मते, न पुनस्तव्यतिरिक्तावुत्पादविना