________________
( १८५ )
लितनयद्वयबलात्स्यादवक्तव्य एव चैत्र इति भङ्ग प्रयुङ्क्त इति ऋजुसूत्रनयानाश्रयणेऽपि नासम्भवस्तृतीयमङ्गस्येत्यभिप्रायः ॥
सप्तभङ्गया एकैकनयप्रभवत्वाभावे नयसप्तभङ्गी प्रमाणसप्तभङ्गीत्येवं सप्तभङ्गया द्वैविध्यं न भवेत्, किन्त्वेकस्य नयान्तरसव्यपेक्षस्य प्रमाणभावमापन्नस्य सप्तभङ्गीमूलत्वेन प्रमाणरूपैव सप्तभङ्गीति प्रमाणसङ्गीत्येक भेद एव सप्तभङ्गया इति तु नाशङ्कयं यतः
"कालात्मरूपसम्बन्धाः संसर्गोपक्रिये तथा ॥ गुणिदेशार्थशब्दाचेत्यष्टौ कालादयः स्मृताः ॥ १ ॥ इति" वचनसगृहीतैः कालादिभिरष्टभिः द्रव्यार्थिकनयादेशादेकस्य प्रकृतस्यास्तित्वादिधर्मस्यान्यैरशेवैरपि धर्मेरभेदवृत्तिप्राधान्यात्पर्यायार्थिकन यादेशादभेदो न चारा द्वैकधर्मप्रतिपादनमुखे नाशे धर्मप्रतिपादकवलक्षणं सकलादेशलं प्रत्येकं सप्तानामपि भङ्गानामाश्रीयते तदा सप्तापि भङ्गाः अनन्तधर्मात्मकवस्तुप्रतीति लक्षणप्रमाजनकत्वेन प्रमाणमिति सप्तभङ्गसमाहारलक्षणा सप्तभङ्गी प्रमाण सप्त भङ्गीति गीयते.
कालादिभिरष्टभिः पर्यायाकन या देशाद्भेदवृत्तित्रावान्याद्रव्यार्थिकनयादेशाद्भेदोपचाराद्वा प्रकृतस्यैकस्य धर्मस्य धर्मान्तरैस्समं भेद एवेति विभिन्नयप्रतिपादकत्वमेव