________________
८८
व्युत्पत्तिवादः ।
कृन्मते तादृशयोग्यताज्ञानहेतुत्वा कल्पनलाघवेऽपि जानातीत्याद्यानुपूर्वीज्ञानघटितज्ञाधातुशक्ति ज्ञानजन्यज्ञानोपस्थितिघटित शाब्दलामध्या भिन्नविषयकप्रत्यक्षं प्रति प्रतिबन्धकतायां आख्यातजन्या श्रयत्वोपस्थितेर्निवेशनस्याधिक्यागौरवमिति वाच्यम् । भवन्मतेऽपि ज्ञानाश्रयत्वाभाववांश्चैत्रः सु न्दर इत्यादिविशिष्टवैशिष्ट्या वगाहिप्रत्यक्षे, जानाति चैत्र, इत्याद्यानुपूर्वीज्ञानघटितज्ञाधातुजन्य ज्ञानोपस्थितिघटितसामन्याः प्रतिबन्धकताधिक्येन गौरवात् । मन्मते च तादृशसामग्र्या विरो विज्ञानाश्रयत्वाभाववत्तानिश्चय घटिततया तथाविधविशिष्टवैशिष्ट्यबोधसामग्र्यास्तादृशशाब्दसा. मध्या समं युगपदेवस्थानासंभवेन तादृशप्रतिबन्धकत्वकल्पनाविरहादित्यधिकं दर्शित दिशाबसेयम् । अथैवं रीत्या भूतले न घट इत्यादौ घटादिपदस्य घटप्रतियोगिकादौ तदुसर सुब्विभक्तेरेव वा प्रतियोगितायां लक्षणामभ्युपेत्य तत्र घटप्रतियोगिकाभावो भूतलवृत्तिरित्याद्याकारकप्रतियो गिताप्रकार कशाब्दबोधोपगम एव समुचितः । तथा सति तथाविधसमभिव्याहारज्ञानघटितसामया घटप्रतियोगिकत्वाभाववानभावः प्रमेय इत्यादिविशिष्टवैशिष्ट्यबोधं प्रति प्रतिबन्धकत्वाकल्पनेन लाघवादित्युक्तमियमे निपातातिरिक्तत्वविशेषणवैयर्थ्यमिति चेन्न । भूतले न घट इत्यादी घटाद्यभावे भूतलाद्यन्धित सप्तम्यर्था धेयत्वस्येव तात्पर्यवशाद्धदादौ सप्तम्यन्तार्थभूतलादिवृत्तित्वाभावस्यान्वयबोधोऽप्यनुभवसिद्धः अन्यथा तादृशवाक्यजन्यस्याप्रामाण्यज्ञानानास्कन्दितबो
धस्य भूतले घट इत्यादिवाक्यजन्य घटादिविशेष्यकभूतलाद्याधेयत्वप्रकारक बोधविरोधितायाः स र्वानुभवसिद्धाया अनुपपत्तेः । ननूपदं विना यत्र धर्मिणि यस्य विशेषणतया भानं यादृशसमभिव्याहाराद्भवति तादृशसमभिव्याहारस्थले नञ्सत्त्वे तत्र धर्मिणि तदभावः प्रतीयते इत्यनुभवापलापप्रसङ्गाच्च । एवंच नत्रर्थाभावेऽनुयोगितथा घटाद्यन्वयबोधोपपत्तये निपातातिरिक्तत्वविशेषणमावश्यकम् । एवं न पचति चैत्रः, चैत्रस्य न धनभित्यादौ पाककृति चैत्रस्वत्वाद्यभावस्य नञर्थस्य चैत्रधनादावन्वयबोधोपपत्तये घडो न पट इत्यादौ नञर्थघटादिभेदस्यान्वयबोधोपपत्तये च तदावश्यकम् । न चोक्तस्थलेषु नञोऽभाषवल्लाक्षणिकतयाऽभाववता सममनुयोगिनोऽभेदान्वयबोध
विरोधितायाः सर्वानुभवसिद्धाया अनुपपत्तेरिति । इदं च समानप्रकारकज्ञानस्यैव प्रतिबन्धकत्वमित्यभिप्रायेण हृदोवहिमानित्यादौ वन्ह्यभाववद्भदस्येव हदावृत्तिवह्नेर्वह्निव्यापकाभाववद्रदस्य हृदनिष्टाभावप्रतियोगिवश्व बाधकतायास्तत्रतत्रो कतयाऽसमान प्रकारकज्ञानस्यापि प्रतिबन्धकत्वेवाह - नञ्पदं विनेत्यादि । अथात्र सर्वे हि वाक्यं सावधारणमसतिबाधक इत्यभ्युपगमानुसारात्तत्र धर्मिणि तदभावएव प्रतीयत इति तदन्यधर्मिविशेष्यकप्रतीतिविषयत्वाभाववांस्तदन्याभावइत्यर्थो विवक्षितो व्युत्पत्तिवैचित्र्यादुत तदन्याभावे तदभावान्यस्मिन्वा तद्धर्मिविशेष्यकप्रतीतिविषयत्वाभावोऽथवा तद्धर्म्यनुयोगिकतदभावान्याभावे प्रतीतिविषयत्वाभावः उताहो नावधारणः सर्वत्रैव च तादृशसमभिव्याहार इति सप्तम्यप्रयोज्यत्वस्य प्रतीतावन्वयस्तत्र नाद्यः सादृश्यप्रतियोगितया निर्देशादपिकाराव, प्रतीयमानेन घटाभावशाब्दबोधाभ्युपगमेन विरोधात् द्वितीयश्च घटाभावादेः प्रतीयमानत्वेऽपि तादृशप्रतीतिविषयत्वाभाववत्त्वेनावधारणफलाभावादेवाविवक्षणीयः तृतीयश्च तादृशाभावाप्रसिद्धिस्थला संग्रहेणैत्र हेयः चतुर्थश्च यत्र वचन न पचतीत्यादौ कृतौ वर्तमानत्वाभावबोधाभ्युपगमादिनाप्यनुभवस्योपपत्तिसंभवेन घटवृत्तित्वाद्यभावबोधाभावेप्यपलापाभावान्न विवक्षितसाधकइति चेन्न यादृशयादृशसमभिव्याहार इत्यस्य तदभावोपीत्यस्य च विवक्षितत्वात् तथासति भूतले घटो नेत्यादौ सत्यपि तात्पर्ये कदाचिदपि घटवृत्तित्वाभावस्याप्रतीतावुक्तानुभवस्यापलापप्रसङ्गात् घटाभावबोधस्याप्यनुभवाविरोधित्वाच सर्वसामञ्जस्यम् । अपिना च सति ता त्पर्येऽनुयोगिवाचकपदोत्तरसप्तमीविभक्तौ न समभिहारस्थलीयविशेष्यात्यन्ताभावोऽव्यवस्थितः प्रतीयमानतया बोध्यत इत्यतो नाव्यवस्थाप्रसङ्गः अनया च वाचोभन्नया विशेषणाभावप्रत्ययस्य बहुलीभूतस्य विनाकारणमपलापानौचित्यद्योतनमुखेन घटवृत्तित्वाभावप्रत्ययानुभवो दृढीकृतस्तेन घटद्वृत्तित्वाभावप्रत्ययस्यानुभूयमानत्वाच्चेत्येव कुतो नोक्तमिति निरस्तम् 1. जातजातिर्नास्तीत्यत्र जातिनिरूपितसमवायावच्छिन्नवृत्तिस्याप्रसिद्धरिति उतनियमस्य संकोचो वाच्यः सचानुयोगिवाचकपदोत्तरसप्तम्यभाव इति सामान्यत एव वक्तुमुचितइति नानुभवस्य दार्श्वमिति चेन्न जातिनिरूपितवृत्तित्वस्य समवायावच्छिन्नवृत्तित्वीयस्वरूपेणाभावस्यैव तत्र बोधसंभवात्संकोचस्यानावश्यकत्वात् । विशेषरूपेण
ननु