________________
गूढार्थतत्वालोकव्याख्यासहितः । शानं चैत्र इत्यादावपि तथान्वयबोधापत्तिरिति वाच्यम् तादृशान्वयबोधे आख्यातान्तधातुसमभिव्याहारज्ञानस्य हेतुत्वात् । भवतोप्याश्रयताप्रकारकबोधे तादृशसमभिव्याहारज्ञानस्य हेतुताया आवश्यकत्वात् । यत्तु पचति चैत्र इत्यादी पाककृतिमांश्चैत्र इत्याकारकाख्यातार्थप्रकारकशास्दबोधोत्पत्त्या तत्राख्यातजन्यकृत्युपस्थितेहेतुत्वकल्पनमावश्यकम् तथा च तत्तदर्थविशेषानिवेश्यास्मनिष्ठप्रत्यासत्या पदार्थोपस्थितेहेतुत्वकल्पने शक्यलक्ष्यसहस्रार्थभेदेनाख्यातजन्योपस्थितेः कारणताबाहुल्यमित्यर्थविशेषाननिवेश्य धात्वर्थप्रकारकान्वयबोधं प्रति प्रत्ययजन्योपस्थितेः समानविशेष्यताप्रत्यासत्त्यैव हेतुत्वमुपेयते तथा च तादृशकारणबाधेन चैत्रादेर्धात्वर्थज्ञानविशेष्यताया भानं न संभवति । यदि च धातुत्वप्रत्ययत्वादीनामनुगतानां दुर्निर्वचतया नैतादृशानुगतकार्यकारणभावकल्पनं संभवतीति मन्यते तदापि यत्र झाधातोरेव पाकादी लक्षणा तत्र जानाती. त्यादिवाक्यात्पाककृत्यादिप्रकारकान्वयबोधोत्पत्त्या झाधात्वर्थप्रकारकान्वयबोधे तदव्यवहितो. सरतिप्स्वादिप्रकारकझानजन्योपस्थितेः समानविशेष्यत्वप्रत्यासत्या हेतुतायास्तत्र कल्पनीयतया ताशकारणबाधाचैत्रो जानातीत्यादौ चैत्रादेर्शानविशेष्यतया भानानुपपत्तिारैवेति तदपयसत् । प्रत्ययान्तरार्थविशेष्यकशाब्दबोधे व्यभिचारवारणाय ताशोपस्थितिवैशिष्ट्यस्य तादृशोपस्थितिजन्यतावच्छेदककोटी अवश्यं निवेशनीयतया तदनुत्तरशाब्दबोधे चैत्रादेर्शानादिविशेष्यतया भाने ताशकारणबाधस्याकिंचित्करत्वात् । तादृशानुपूर्वीघटकनादिधातुजन्यज्ञानायुपस्थितिचैत्रादिरूपविशेष्योपस्थितियोग्यताशानादिघटितसामग्या आश्रयतासंसर्गकशाब्दबोधजनने बाधकाभावात् । न चैतन्मते आश्रयतासंबन्धेन ज्ञानादिप्रकारकशाब्दबोधे तादृशयोग्यताशानहेतुत्वान्तरकल्पनाधिक्यम् आश्रयतासंबन्धेन ज्ञानविशिष्टचैत्रादितात्पर्यकात् सर्वनाम्नः साङ्केतिकशब्दान्तराद्वा तादृशसंबन्धेन ज्ञानादिप्रकारकचैत्रादिविशेष्यकशाब्दबोधस्य सर्वमतएव प्रसिद्धावपि तादृशशाब्दबोधे पदार्थान्तरभाननयस्येन तम्मिश्रितयोग्यताशानस्य तत्र हेतुताया आवश्यकत्वात् । शानादिविशिष्टचैत्रादिमात्रविषयकयोग्यताज्ञानस्य ज्ञानादिविशिष्टचैत्रादिविषयकशाब्दयोधे हेतुतायाः कुत्राप्यकृप्तत्वादिति वाच्यम् । भवन्मतेऽपि ज्ञानाश्रयताप्रकारकचैत्रादिविशेष्यकशाब्दबोधे तथाविधयोग्यताज्ञानहेतुताया आधिक्यात् । आश्रयतासंसर्गकज्ञानीयकारणतावच्छेदकस्य तदीयसंसर्गवि. षयताघटिततत्प्रकारकशानकारणतावच्छेदकापेक्षया लघुशरीरतया आश्रयतायाः संसर्गतामतस्यैव लघुत्वात् । न च यत्राश्रयत्वे ज्ञाधातुसमभिव्याहृताख्यातस्य शक्तिभ्रमः स्वारसिकलक्षणाग्रहो वा तत्र ज्ञानाश्रयताप्रकारकशाब्दबोधस्योभयमतसिद्धतया तत्र ताशयोग्यताशानहेतुत्वमुभयतःसिद्धमेवेति वाच्यम् । आश्रयतायाः संसर्गतावादिना तत्राप्याश्रयताप्रकारकबोधस्यानभ्युपगन्तव्यत्वादिति चेत् । सत्यम् । एतदभिप्रायेणैव जानातीत्यादावाख्यातस्य निरर्थकता मणिकार ऊरीचकार तत्राश्रयत्वे निरूढलक्षणामभ्युपगच्छता दीधितिकाराणां पुनरेष आशयः यत्र ज्ञाधातोझनाश्रयत्वे शक्तिभ्रमः खारसिकलक्षणाग्रहो वा तत्र चैत्राचंशे धात्वर्थकदेशस्य ज्ञानादेरन्वयान पपत्त्या स्वरूपसंबन्धेन ज्ञानाश्रयताप्रकारकचैत्रादिविशेष्यकान्वयबोध एव तत्र मणिकृता स्वीकरणीयः। तथा च तत्र ज्ञानाश्रयताप्रकारकशाब्दबोधे तत्प्रकारकयोग्यताज्ञानहेतुतायाः कृप्तत्वादा. श्रयतासंसर्गकशाब्दबोधे ताशयोग्यताज्ञानहेतुताकल्पनमधिकमेव मणिकृन्मते । नच दीधितिप्रतियोगितानवच्छेदकत्वेन पचतील्यादावारुयातस्य कृत्यर्थकत्वेपीत्यर्थः । आवश्यकत्वादिति। अन्यथा ज्ञानमाश्रयत्वं चैत्र इत्यादावपि ताशयोधप्रसङ्गादितिशेषः । नच प्रकारतामते धाबर्थनामार्थयो मार्थनामार्थयोश्च भेदेनान्वयस्यास्वीकारादेवोक्तस्थले न शाब्दबोधप्रसङ्ग इति वाच्यं तस्यापि तादृशसमभिव्याहारस्य निराकासात्वमूलकत्वानियममात्रस्याकिंचित्करत्वादितिभावः । मणिकृता स्वीकरणीय इति । अथानवस्थितसंबन्धलक्षणायाः खीकर्तुमशक्यतया यत्रावस्थान तादृशबोधस्यैव प्रकारतामतेऽधिकस्य खीकरणमिति नाधिक्यप्रसङ्गो मणिकारमत इति चेन्न लक्षणासंभावनयैव प्रकारतामताश्रयणस्य दीधितिकृता कृतत्वात्संभावनाया दोषत्व विघटकस्य प्रकृतेऽभावात्सामग्रीप्रतिबन्धकलगौरव एव निर्भरलाच ।