________________
व्युत्पत्तिवादः । कुतः प्रतिबन्धकताद्वयकल्पनमिति भवतापि तादृशशाब्दं प्रति तादृशानुमितिद्वयसामग्रीडयस्य प्रतिबन्धकताया घाच्यतया साम्याच । एवं राजपुरुष इत्यादिसमासवाक्यास्स्वत्वसंसर्गकशाब्दबोधस्वीकारे तादृशशाब्दबोधसामरया: स्वत्वसंसर्गेण राजविशिष्टपुरुषतात्पर्यशानादिघटिताया भिजविषयकप्रत्यक्षादिकं प्रति प्रतिबन्धकरवाधिक्येन गौरवात् । तत्र राजसंबन्धिप्रकारकामेदान्वयबोधस्वीकार एवोचितः। न च भवन्मतेऽपि ताशाभेदान्वयबोधसामध्याः प्रतिबन्धकताधिक्येन गौरवमिति वाच्यम् । राजपदस्य राजसंबन्धिनि खारसिकलक्षणाग्रहदशायामभेदसंबन्धेन राजसंबधिविशिष्टपुरुषे तात्पर्यग्रहसत्वे भवन्मतेऽपि कर्मधारयत्वेनाभिमतात्तथाविधसमासवाफ्याताशशाब्दबोधस्वीकारस्यावश्यकतया तादृशसामनीप्रतिबन्धकताया उभयमतसिद्धत्वात् । यत्तु धि पश्य इत्यादौ लुप्त द्वितीयाविभक्तिस्मरणेन दधिकर्मकदर्शनबोधवद्राजपुरुष इत्यादावपि लुप्तषष्ठीविभक्तिस्मरणेन राजसंबन्धप्रकारकभेदान्वयबोधनिर्वाहे राजसंबन्धिनि निरूढलक्षणां स्वीकृत्याभेदान्ययबोधोपगमो निरर्थकः । नच षष्ठीतत्पुरुषादिस्थलेऽपि लुप्तविभक्तिसारणएव चेदन्वयबोधस्तदा ऋद्धस्य राजमाता इत्यादिप्रयोगापत्तिस्तत्र मातङ्गादौ राजादीनामन्वयबोधोपपत्तये राजादिपदो
रषष्ठयादिविभत्त्यनुसंधानस्यावश्यकत्वेन समानचिभक्तिकतया राजादी ऋद्धादिपदाथेस्याभेदा न्वयबोधसंभवादिति वाच्यम् । यतस्तत्र ऋद्धराजादीनामभेदान्वयबोधानुपपत्त्या नाभियुक्तानामप्रयोगः, अपि तु समासाघटकपदसापेक्षतया राजपदस्थासामातिदेशात्समासासाधुत्वेन । तत्सा. पेक्षत्वं च तदर्थान्वितस्वार्थपरत्वं, स्वार्थश्च स्वीयवृत्तिग्रहविशेष्यः । अत एव, शरैः शातितपत्रश्त्रस्य दासभायेंत्यादौ न समस्यमानशातितदासपदादेः सापेक्षता । तदर्थैकदेशशातनदासत्वावावेव शरकरणकत्वचैत्रनिरूपितत्वादीनामन्वयात् । तदर्थान्वितेत्यत्राभेदान्वयो वा निवेशनीय इति ।
सत । स्वारसिकलक्षणाग्रहस्थलानुरोधेन ताशसमभिव्याहारज्ञानादेस्तथाविधबोधजनकताया क्लप्तत्वात्तत्र निरूढलक्षणास्वीकारे गौरवाभावात् । यत्र राजपदस्य राजसंबन्धिनि स्वारसिकलक्षणाग्रहस्तत्र तादृशबोधस्योभयमतसिद्धतया तादृशसमभिव्याहारज्ञानस्य राजसंबन्ध्यभिन्नपुरुषबोधे
मेषितव्यं तत्किमनुत्पत्त्यापराद्धं यस्याः प्रयोजकलं न स्वीकरणीयं सा चानुत्पत्तिवेद्भवद्भिः राज्ञः पुरुष इत्यादिशाब्दसामग्री कालेऽनुमितिसामग्रीसत्त्वे- राजकीयः पुरुष इत्यनुमितावेव प्रमाणतः परिच्छिन्ना न राजकीयं स्वलं राजखलवापुरुषइत्यनु मित्योस्तां तथैवाही कुर्मो वयं तत्परीक्षायाः निष्प्रयोजनलात् परीक्षासहस्रेणापि प्रामाणिकस्यार्थस्यान्यथाकर्तुमशक्यखाच । तथाचास्माकमपि राजत्वावच्छिन्नप्रकारतानिरूपितपुरुषलावच्छिन्नविशेष्यताशाल्यनुमितिलावच्छिन्ना एकैव प्रतिवध्यता तत्रिरूपितप्रतिबन्धकताचेति नाधिक्यं प्रतिबन्धकलस्य । अथ याच्यते भवद्भिनोस्माभिः प्रवलेन केनापि प्रमाणेना. नुत्पत्तिः परिच्छिन्ना किंवनतिरिक्त विषयकवरूपानुत्पन्नसाजात्येनैवाधिगतेति तदा शाब्दसामम्यनुमितिसामग्योः सत्योर्योग्ययोरनुमिल्योरदर्शनेन प्रमाणेन परिच्छिन्नास्माभियोरनुत्पत्ति स्तिच तत्र साजात्यस्यापि बाधइति सानुत्पत्तिः प्रामाणिकी भवद्भिरपि नान्यथाकर्तुं शक्येति भवद्भिरप्यगत्या प्रतिबन्धकत्वद्वयं शाब्दसामय्याः खीकरणीयमित्येवमपि न प्रतिबन्धकताधिक्यमिति प्रकारतावादिनामाशय इति नोक्तग्रन्थासङ्गतिः । ये तु ऋजवस्तान्प्रत्याह । भवताऽपि ताहशशाब्दंप्रतीत्यादि । राजपदस्य राजसंबन्धिनि स्वारसिकलक्षणाग्रहदशायामित्यादि । यद्यपि राशः पुरुष इत्यादिवाक्यस्थले दर्शितरीत्या राजसंबन्धिभिन्नः पुरुषः सुन्दरः राजाभाववान् संबन्धः प्रमेय इत्यादिद्विविधप्रत्यक्षं प्रति संसर्गतावादिनां प्रतिबन्धकताद्वयादिक प्रकारतावादिना तु राजाभाववान् पुरुषः सुन्दर इत्यायेकविधप्रत्यक्ष प्रति शाब्दसामग्या एकविधमेव प्रतिबन्धकलमित्यस्त्येव संसर्गतामते गौरवं तथापि ततोप्यधिकगौरवमेवं रामासस्थले संसतामते संभवतीति तदुपेक्षितं वाक्यस्थले च यथोक्तरीतेर्न संभवस्तथोक्तं प्रागेव । तत्सापेक्षलं च तदर्थान्वितखार्थपरखमित्यादि । विवृतं चैतत्प्रसङ्गात्प्रागेव ।
उभयमतसिद्धतयेति । विभक्त्यनुसन्धानेन भेदान्धयाभ्युपगन्तुरभेदान्वयाभ्युपगन्तुच यन्मतं तत्सिद्धतयेत्यर्थः नतु संसर्गतावादिप्रकारताबायुभयमतसिद्धतयेत्यर्थः । संसर्गताबादिना विभक्तिश्रवणस्थलेऽपि विभक्त्यर्थप्रकारकबोधानभ्युपगमेन यत्त्वित्यादिनन्धस्य तन्मतानवलम्बिलात्तन्मतसिद्धलोद्भावनस्य प्रकृताननुकूलखात् । अथ खारसिकलक्षणाग्रहस्थले उक्तवाक्ये तत्पुरुषलग्रहे राजसंबन्धिपुरुषइति समासस्थलचद्राजपदस्य राजसंबन्धिनि शक्तखभ्रमस्थलवद्वा राजसंक