SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ गूढार्थतत्वालोकव्याख्यासहितः । ८३ ताडशनिश्चयकाले प्रत्यक्षाभ्युपपत्तेस्तदभावानिवेशात् । यत्तु राज्ञः पुरुष इत्यादौ राजखत्ववान् पुरुष इत्याद्यन्वयबोधोपगमे राजकीयं स्वत्वं राजस्वत्ववान्पुरुषहत्याकारकछिविधानुमितेरेव तदतिरिक्ताविषयकत्वेन तारशानुमिति प्रति प्रत्येक ताशवाक्यघटितसामय्याः प्रतिबन्धकत्वद्वयम् अस्मन्मते च तादृशानुमित्योस्तथाविधवाक्यजन्याद्राजकीयः पुरुष इत्येतादृशबोधादतिरिक्तविषय. कतया तत्र तादृशसामग्र्याः प्रतिबन्धकत्वकल्पनं नास्ति, तथाविधानुमितितथाविधशाब्दसामग्रयोश्च सत्योरनुमितेरेवोत्पत्तेः, अपि तु राजकीयः पुरुष इत्याकारकतत्वसंसर्गकैकविधानुमिति प्रत्येव ताशसामग्रयाः प्रतिबन्धकत्वमेकं कल्पनीयमिति लाघवमिति तदकिंचित्करम् । भवद्भिर्यत्र, यादृशानुमितिः स्वीक्रियते अस्माभिरपि तत्र तादृशानुमितेः स्वीकरणीयतयानुमितौ शाब्दलामध्याः प्रतिबन्धकत्वसाम्याद, उपदर्शितस्थले भवद्भिरनुमितिः स्वीक्रियते अस्माभिरपि स्वीक्रियते. टरूपता संपाद्य तेषां बाधत्रयव्याप्यतया निर्णयानामभावानां प्रवेशे कारिते परमाधिक्ये तथाच प्रकारतावादिमते संसर्गताबादिनोक्तरीत्या गौरवे समुद्भाव्यमाने परार्थमुद्यच्छमानस्य शस्त्रस्य खशिरसीव खमतएवातिगौरवस्य प्रपातः स्यादिति घटादिप्रत्यक्षस्थले सामग्र्यां बहुपदार्थप्रवेशेऽपि विषयताविशेषसंबन्धेनापेक्षाबुद्ध्यात्मकसमुदायत्वस्य स्खविशेषणविषयताभेदेनानेकस्वरूपस्यापि समनियतत्वेन समनियतनानाधर्मावच्छिन्नप्रतिबन्धकत्वस्यैक्यमेवेति घटादिप्रत्यक्षस्थले न प्रतिबन्धकताबाहुल्यं व्यासज्यवृत्तित्वमवच्छेदकत्वादीनामङ्गीक्रियतएवेति ज्ञानविशेषणविषयत्वेष्ववच्छेदकत्वमण्येकमेव तत्संबन्धोऽपि स्वरूपात्मकएव अवच्छेदकव्यक्तीनां बहुत्वेऽपि कुप्तत्यमेवेति न गौरवमिति संसर्गतावादिभिरेव वाच्यमेवं च प्रकारतावायुद्भावितराजखखाभाववान् पुरुषः सुन्दर इत्यादिभिन्न विषयकप्रत्यक्षएव प्रतिबन्धकतागौरवं निराबाधमिति भवति सर्वथैव सन्दर्भशुद्धिरिति । यद्यपि प्रागुपदर्शितविभिन्न विषयकप्रत्यक्षस्थलीयबहुतरप्रतिबन्धकत्वकल्पनागौरवे महति विद्यमाने प्रतिबन्धकताद्वयकल्पनागौरवं संसर्गतावादिभिरुद्भावितं न प्रकारतामतदूषणायालमिति तत्खण्डनोपक्रमो व्यर्थ एव तथापि वस्तुस्थितिमनुरुभ्य प्रौढि प्रकटनाशयात्तत्खण्डनमुपक्रमते यत्त्वित्यादिना । तदतिरिक्ताविषयकत्वेनेति । तद्विषयताविशिष्टान्यविषयताशून्यत्वेनेत्यर्थः । वैशिष्ट्य च स्वसामानाधिकरण्यस्तावच्छेदकसंबन्धावच्छिन्नत्वोभयसंबन्धेन बोध्यम् । पर्वतोवह्निमान् पर्वतवानवाहिरितिज्ञानयोः परस्परमनतिरिक्तविषयकलवारणाय खानवच्छेदकसंबन्धानवच्छिनखरूपस्य खावच्छेदकसंबन्धावच्छिन्नत्वस्य प्रवेशः । नचैवमपि पर्वतोवहिमान् महानसंधूमवदिति समूहालम्बनस्यानतिरिक्तविषयकत्वं पर्वतो धूमचानवह्निमन्महानसमिति समूहालम्बने स्यादिति वाच्यम् तद्विशेष्यतावदन्यप्रकारताशून्यत्वस्य विवक्षितत्वात् विशेष्यतावत्ताच स्वावच्छेदकावच्छिन्नविशेष्यतानिरूपितल खनिरूपितप्रकारतावत्त्वोभयसंबन्धेन । प्रकारतावत्ताच खावच्छेदकावच्छिन्नत्व खावच्छेदकसंबन्धावच्छिन्नत्वोभयसंबन्धेन बोध्यम् । वहिरवेन वयवगा हिवह्नित्वेन घटावगाहिज्ञानयोरनतिरिक्तविषयकत्वं यदि नानुभविक खसामानाधिकरण्यमपि संबन्धघटकतयोपादेयं नान्यथा महानसीयवह्निप्रकारकज्ञानानतिरिक्तविषयकवं वह्निप्रकारकज्ञाने यदीष्टं तदा स्वावच्छेदकावच्छिन्नलमधिकवारकपर्याप्तिघटितमेवोपादेयमितरथान्यूनवारकपर्याप्तिघटितमपीति । भवद्भिर्यत्र याहशानुमितिः स्वीक्रियतेऽस्माभिरपि तत्र ताडशानुमितेः स्वीकरणीयतयेति । अथ बुभुत्सिते ह्ये कस्मिन्नर्थे विजातीयानुभवसामय्याः सनिपाते कस्मिंश्चिदप्यनुभवे जायमाने बुभुत्सितार्थावगतिसाकल्यसंपत्तेः पुनरवगतेरसंपाद्यलमिति तत्र यत्सामग्या लघुवं तस्यैव फलजनकलं बुभुत्सितयोरर्थयोर्विजातीयानुभवसामग्योः सन्निपाते कयाप्येकयैवार्थावगत्या भवितव्यं जातिसार्यज्ञानयोगपद्ययोरनभ्युपगमादिति बुभुत्सितार्थावगतिसाकल्यासंपत्तेः पुनरवगतिः संपादनीया साच सामग्यधीना तत्र गुरुसामग्रीसंपादनापेक्षया लघुसामग्रीसंपादनं युक्तमिति यत्सामन्या गुरुवं तस्या एवं प्रथमतः फलजनकवमित्यनुभवसिद्धं तथाचान्वयव्य तिरेकसहचारग्रहतर्कादिसम्पाद्यव्याप्तिग्रहाद्यपेक्षानुमितिसामग्रीतः शाब्दसामन्याः शाब्दसामग्रीतश्च प्रत्यक्षसामग्या लघुभूताया अनतिरिक्तविषयिकायामनुमितौ शाब्दमतौ च प्रतिबन्धकवं विभिन्न विषयके शाब्दबोधे चानुमितिसामय्याः तादृशे प्रत्यक्षे च शाब्दसामग्याः प्रतिबन्धकखं कुप्तं तदनुसृल्यैवानतिरिक्तविषयकलमनुमितिद्वयस्य प्रतिबध्यत्वप्रयोजकं प्रदर्य संसर्गतावादिना प्रतिबन्धकत्वद्योपादानं कृतं नाकस्मादनुमितिद्वयस्य प्रतिवध्यत्वमवलम्ब्य तदुद्भावितम् खमतेच प्रतिबध्यताप्रयोजकस्यानतिरिक्तविषयकलस्यानुमितिद्वये विरहात्तयोस्तत्र स्वीकारेण प्रतिबन्धकताद्वयवारणं च कृतम् एवं सति संसर्गतावादिनामनुमितिद्वयस्वीकारः प्रतिबध्यताप्रयोजकानतिरिक्तविषयकत्वविरह- . निबन्धनो नाकस्मिकः प्रकारतावादिना तु प्रतिबध्यलप्रयोजकस्यानुमितिद्वये सलात्तत्स्वीकारो नियुक्तिक इति भवद्भिर्यत्रेत्यायुक्तिरसङ्गतेतिचेत् उच्यते-नानतिरिक्तविषयकवं प्रतिबध्यताया अवच्छेदकलाप्रयोजकमिच्छोत्तेजकखानुरोधेन खयापि तस्यानङ्गीकारादन्यथा प्रतिबन्धकताद्वयापादनमेवासगतं स्याम्किलनुत्पद्यमानखनियततया गृहीतं सदेव प्रयोजक
SR No.008449
Book TitleVyutpattivada Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy