SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ गूढार्थतत्वालोकव्याख्यासहितः । कारणतायाः क्लप्तत्वात्, तयैव निर्वाहेण सर्वत्र लुप्तविभक्तिस्मरणकल्पने मानाभावात् । न च स्वारसि कलक्षणाग्रहस्थले तत्र तादृशान्वयबोधस्योभयवादिसिद्धत्वेऽपि निरूढलक्षणामते संबन्धितात्पर्य स्थामादित्वकल्पनागौरवम् अनादितात्पर्यविषयीभूतार्थनिष्टलक्षणाया एव निरूढलक्षणात्वादितिवा. च्यम् । राजपुरुष इत्यादिवाक्यजन्यशाब्दबोधात्पूर्व नियमतो लुप्तविभक्तिस्मरणकल्पनापेक्षया तात्पयस्यानादित्वकल्पनायां गौरवविरहादिति । न चैवं दधि पश्यतीत्यादायपि दध्यादिपदस्य दधिकर्म. कादौ लक्षणां स्वीकृत्य धात्वर्थेन समं तस्याभेदान्वययोधोपपादनसंभवात्तत्रापि लुप्तविम. क्तिस्मरणकल्पनमनुचितमिति वाच्यम् । दध्यादिपस्य दधिकर्मकादौ लक्षणाग्रहदशायामपि सस्य द्वितीयेतरविभक्तयन्सस्वभ्रमदशायर्या दधिकर्मकः पश्यति दधिकर्मकेण पश्यतीत्यादाविव उक्तस्थलेऽपि दधिकर्मकदर्शनान्वयबोधानुदयात् भवन्मते दधिपश्यतीत्यादिस्थलीयदधिपदोत्तरपश्यतिपदत्वरूपाकालाक्षानादिघटितसामग्रीसत्त्वादधिकर्मकदर्शनान्वयस्यापत्तद्धितीयान्तदध्यादिपदत्वावच्छिन्नधर्मिकतारशधात्वादिसमभिव्याहारज्ञानस्य तादृशान्वयबोधे हेतुताया आवश्यकस्वात् दधि पश्यतीत्यादौ लुप्तद्वितीयानुसंधानस्यावश्यकत्वात् । राजसंबन्धिपुरुषाद्यन्वयबोधे च राजपदाव्यवहितोत्तरपुरुषादित्वप्रकारकशानस्य हेतुतायाः स्वारसिकलक्षणाग्रहस्थलानुरोधे. नावश्यकल्पनीयतया राजपुरुष इत्यादौ राजादिपदस्य तृतीयाद्यन्तत्वभ्रमदशायां राजसंबन्धिपुरुषाद्यन्वयबोधापत्यसंभवात् । तृतीयादिविभक्त्या व्यवधानात् । दधि पश्यतीत्यादौ दधिपदा. रत्वप्रकारकधातुपदशानस्य हेतुताया अक्कप्तत्वात् । पश्यति दधि, पश्यति चैत्रो दधि, इत्यादावपि दधिकर्मकदर्शनान्वययोधात् तादृशज्ञानहेतुताया अशक्यकल्पनीयत्वाश्चेति । तण्डुलं पचतीत्यादौ तण्डुलादिपदस्यैव तण्डुलादिकर्मके लक्षणा विभक्तिस्तु साधुत्वार्था एवं राशः पुरुष इत्यादावपि राजादिपदस्य संबन्ध्यादौ लक्षणा विभक्तिः साधुत्वार्था । तत्तद्विभक्त्यन्तसम. भिन्याहारस्य तत्तल्लाक्षणिकार्थबोधनियामकत्वान्नातिप्रसङ्गः विभक्तरेव प्रकृत्यर्थविशेषितस्वार्थे लक्षणेति तु न संभवति । विभक्तेः कुत्रापि शक्तरक्लप्ततया तत्र शक्यसंबन्धरूपलक्षणाया असं. न्धिसंवन्धप्रकारकस्य राजसंबन्धिसंबन्धिप्रकारकस्य च बोधस्योभयमते संभवो न राजसंबन्धिप्रकारकस्य कर्मधारयल ग्रहे च विभक्त्यनुसन्धानवादिमते ताशबोधसंभवेऽपि तत्रापि विभक्त्यनुसन्धानेन खन्तराजयदखन्तपुरुषपदसमभिव्याहारझानस्य कप्तस्यैव कारणलं वाच्यं नतु राजपदाव्यवहितोत्तरपुरुषपदशानस्येति नास्ति तादृशसमभिव्याहारज्ञानस्योभयमतसिद्ध कारणलमिति चेन्न कर्मलादिविभक्त्यर्थस्य कर्मधारयस्थलेऽबुबोधयिषितत्वेन प्रातिपदिकार्थमाने प्रथमायाएव प्रसक्तः कर्मधारयविग्रहस्य प्रथमान्तमात्रपदघटितत्वस्य सिद्धान्तसिद्धतया विशेषणपदोत्तरं प्रथमामात्रस्य स्मरणीयत्वाद्राजपुरुषस्येत्यादावाकालानुपपत्तेः विशेष्यपदोत्तरमपि प्रथमास्मरणे षष्ठयाद्यर्थस्यान्वयानुपपत्तेः श्रुतपदार्थातिरिक्तार्थस्याप्रत्येतव्यत्वाच श्रुतसमभिव्याहारस्यैवाकासात्वकल्पनाया युक्तत्वात् तत्पुरुषस्थले च श्रुतपदार्थांतिरिक्तस्य बुबोधयिषितस्य विभत्यर्थस्य विभक्तिस्मरणकल्पनया शक्त्या प्रतिपत्तिसंभवे लक्षणाया अयुक्तत्वेन विभक्त्यनुसन्धानस्य युक्तलाद्विभक्त्यनुसन्धानवादिनाऽपि कर्मधारयस्थले विभक्तरनुसन्धान विनैव राजपदाव्यवहितोत्तरपुरुषपदज्ञानाच्छाब्दखीकारेणोभयमतसिद्धलोक्तरसङ्गतिविरहादिति भावः । तण्डुलादिपदस्यैव तण्डुलादिकर्मके लक्षणेति । नामार्थधाखर्थयो)देनानन्वयनियममभ्युपेत्य कर्मवलक्षणां विहाय कर्मलक्षणानुधावनम् । विभक्तेः कुत्रापि शक्तरक्लप्ततयेति । नन्वाचापोद्वापसहकृतोव्यवहारो ब्याकरणादयश्च शक्तिप्राहकाः सन्त्येव प्रत्ययस्थलेऽपि तत्किमित्युच्यते शस्तरकुप्ततयेति । तथाहि घटमानयेत्यत्र घटकर्मवस्य पटमानयेत्यत्र पटकर्मत्वस्य च प्रतीतिरुत्पद्यते तयोश्च घटपटविषयलतदभावो नाविजातीयेन' प्रत्ययेनाधातुंशक्यौ किन्तु घटपदतदभावाभ्यां पटपदतदभावाभ्यामेवेसावापोद्वापो यथाप्रकृतिभूतघटपटादिशब्दाना शक्तिमाको यथाच कोषादिस्तथा घटमित्यत्र घटकर्मवस्य घटेनेत्यत्र घटकरणवस्य च प्रत्ययो जायते तयोश्च कर्मत्वकरणव विषयवतदभावौ नाविजातीयेन घटपदेनाधातुंशक्यौ किन्तु द्वितीयातदभावाभ्यां तृतीयातदभावाभ्यामित्यावापोद्वापो द्वितीयादिप्रत्ययानां शक्तिग्राहको विद्येते एव तथा कर्मणि द्वितीयेत्यादिव्याकरणं च यदि तात्पर्य प्राहकद्वितीयादिसमभिन्याहारभिन्नमूर्तिकतया घटपदादिप्रकृतिपदेन स्वतोऽविजातीयेनापि कर्मखादिविषयखतदभावी नियन्तुं शक्याबित्युक्तावापोद्वापावन्यथासिद्धौ न प्रत्ययशक्तिं परिच्छेत्तुमीशौ व्याकरणमपि तात्पर्यग्राहकमेवेत्युच्यते भवद्भिस्तदा तात्पर्यग्राहकप्रकृतिविशेषसमभिव्याहारभिन्नमूर्तिकतया स्वतोऽविशिष्टेनापि द्वितीयादि..
SR No.008449
Book TitleVyutpattivada Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy