SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ गूढार्थतत्वालोकव्याख्यासहितः । मैवम् । राज्ञः पुरुष इत्यादी षष्ठ्यादेः स्वत्वाविवाचकत्वमावश्यकम् । अन्यथा पुरुषो न राक्ष इत्यादौ पुरुषे राजस्वत्वाद्यभावबोधानुपपत्तेः। न हि तत्र स्वत्वादिसंबन्धावच्छिन्नमतियोगिताकराजाचभाव एव प्रतीयते न तु राजस्वत्वाद्यभाव इति संभवति स्वत्वादिसंबन्धस्य वृत्यनियामकतया प्रतियोगितानवच्छेदकत्वेन तत्संबन्धावच्छिन्नप्रतियोगिताकाभावाप्रसिद्धेः । अत एव स्वामित्वादिकं परित्यज्य स्वत्वादेः पछ्यर्थत्वं नवीनाः स्वीकुर्वन्ति स्वामित्वादेः षष्ठ्यर्थत्वे तस्य निरूपकतासंबन्धेन पुरुषांशेऽन्वयसंभवेऽपि ताशसंबन्धस्य वृत्त्यनियामकतया संसर्गाभावप्रतियोगितानवच्छेदकत्वेन तत्संबन्धावच्छिन्नाभावस्य नमा प्रत्यायनासंभवात् । आश्रयतासंबन्धाद्यवच्छिन्नाभावबोधस्यैताशसमभिन्याहारस्थलेऽभ्युपगमे चैत्रादिसंबन्धिनि धनेऽपि आश्रयतासंबन्धावच्छिन्नप्रतियोगिताकचैत्रवृत्तिस्वामित्वाभावसत्त्वान्नेदं चैत्रस्येति प्रयोगापत्तिः । न च नसमभिन्याहारस्थलानुरोधेन षट्यादेः स्वत्वादिवाचकत्वेऽपि राशः पुरुष इत्यादौ षष्ट्याद्यर्थस्य संसर्गमर्यादया भानमुचितम् तस्य प्रकारत्वोपगमे तत्संबन्धस्याधिकस्य भानकल्पनेन गौरवात्। नसमभिव्याहारस्यैव तत्प्रकारकबोधनियामकत्वाभ्युपगमेन सामग्रीबलात् तत्प्रकारकबोधस्य तदसमभिव्याहारस्थलेऽसंभवादिति वाच्यम् । एवं सति नपदं विना यादृशसमभिव्याहारस्थले यत्र धर्मिणि येन संबन्धेन यस्य विशेषणतया भानं तत्र नसमभिब्याहारे तत्र धर्मिणि तत्संबन्धावच्छिन्नप्रतियोगिताकतदभावः प्रतीयते इति सर्वजनानुभवस्यापलापापत्तेः। राज्ञः पुरुष इत्यादि. नया प्रकारतामतसिद्धस्य सर्वयोधस्यैव संसर्गतामतेसंभावितत्वात् संसर्गतामतसिद्धप्रथमसंगर्गबोधस्य प्रकारतामते संभावमाया अप्यभावात् सामग्यधिकसंभावनासंभावितं गौरबमस्त्येवेति वाच्यं स्वत्वादिशक्त्यकल्पनालाघवनिश्चयेन तादृशगौरवस्य दृषकत्वासंभवात् । नच वक्ष्यमाणसामग्रीप्रतिबन्धकताकल्पनगौरवमेवास्तु संसर्गतावादिप्रतिकूल मिति वाच्यं दशैते राजेत्यादि प्रामाणिकपद्यस्य प्रकारतापक्षे दुरुपपादतया गौरवस्याकिञ्चित्करत्वादिति भावः । उक्तपद्यानां प्रामाण्यस्य सविवादतयाऽकिंचित्करतां समासस्थले तत्पदस्य लक्ष्यार्थघटकविभक्त्यर्थविशेषणीभवदर्थपरामर्शकताव्युत्पत्त्यन्तरं वा मनसि निधाय प्रकारतापक्ष परिष्कर्तुमुपक्रमते। मैवमित्यादिना।स्तत्वादिवाचकत्वमिति । अथ पूर्वग्रन्थपर्यालोचनया स्वत्वादीनां संबन्धत्वेन वाच्यता प्रतीयते उत्तरग्रन्थपोलोचनया स्वत्वत्वादिनेति भवति विमर्षः किंखत्वत्वेन वाच्यतोत संबन्धत्वेनेति । अत्रकेचित् खववादिना वाच्यत्वे संबन्धानामनन्ततयानन्तशक्तिकल्पनापत्तिरिति संबन्धत्वेनैव वाच्यतोचिता कचित्खवलादिनाभानं वितरवाधबलादेव, तदभिप्रायेणैवाग्रिमग्रन्थे राजस्खत्वाभावादिनिर्णयात्मकबाधदर्शनम् वस्तुतस्तु राजसंबन्धाभावादिनिर्णयरूपएव बाधादिः प्रदर्शनीय इति वदन्ति तन्न युक्तं विशिष्टबुद्धिनियामकलादिरूपसंवन्धलस्यानेकपदार्थघटितत्वेन तदनुपस्थितिदशायामपि राज्ञःपुरुषइत्यादौ शाब्दबोधदर्शनात् राज्ञोनेदं स्वमिति बाधनिर्णयेऽपि राज्ञः पुरुषइतिवाक्यरचनायाः तद्वाक्याच्छाब्दबोधस्य च प्रसशाच । स्वत्ववादिनैव शक्तिरुचिता। अतएव द्वितीयायाः संयोगलविभागवाद्यवच्छिन्न एव शक्ति वक्ष्यति । पूर्वग्रन्थे राजसंबन्धत्वेन खत्वोत्कीतनमापाततएव ग्रन्थकारलेखराम्प्रदायानुसारेण दृश्यते हि ग्रामवृत्तिसंयोगादीनां ग्रामकर्मतात्वेनोत्कीर्तनंतत्रतत्र प्रन्थ इति । वृत्त्यनियामकतया प्रतियोगितानवच्छेदकत्वेनेति । यत्संबन्धेन प्रतियोगिनः सत्त्वेन प्रत्यक्षमापादयितुं शक्यते तस्यैव प्रतियोगितावच्छेदकलात् कुण्डलादिस्वामिन्यपि कुण्डलासंयुक्त कुण्डलीदेवदत्त इत्यादिप्रत्यक्षानुदयावृत्त्यनियामकस्य न प्रतियोगितावच्छेदकलमिति भावः । आश्रयतासंबन्धेनेति । साक्षात्संबन्धेनेत्यर्थः । कालिकाद्यन्यसाक्षात्संबन्धावच्छिन्ननिखिलाश्रयतावृत्तिधर्मविशेषआश्रयतालमेवसंसर्गतावच्छेदकमत्राभिमतं तथाच यथार्थतार्थकमेव तत् । नच संयोगलादिना संयोगादिसंसर्गकवुद्ध्यतिरिक्ताश्रयत्वसंसर्गकबुद्धिरेत्र नास्तीत्याश्रयत्वस्य संसर्गत्बे मानाभाव इति वाच्यम् वहिमानयमित्यादिनिर्णयोत्तरमपि क्वचित्समवायेन संयोगेन वात्र वहिरित्यादि संशयदर्शनादाश्रयत्वस्य तत्र संसर्गताया आवश्यकत्वादित्याहुरपरे । संसर्गमर्यादया भानमुचितम् तस्य प्रकारत्वोपगम इति । ननूपस्थितौ सत्यामेव प्रकारलोपगमसंभवः तत्सत्त्वेच न संसर्गत्वेन भानस्यौचित्यमन्यथासिद्धोपस्थितिविषयत्वस्यैव प्रकारत्वादिना भासमानत्वाप्रयोजकतया तत्सद्भावएव संसर्गलौचिल्लात् नापपादितस्य तादात्म्योपस्थितेरिवान्यथासिद्धत्वस्य खत्वोपस्थितेः संभवः उभयमतेप्युपस्थापकतयानञ्समभिव्याहारस्थले षष्ट्यवस्थितेः कुप्तत्वात् तज्जन्योपस्थितेरपि कुप्तनियतपूर्ववर्तिभिन्नत्वासंभवात् । किंच राजसंबन्धितया पुरुषस्य बुबोधयिषितत्वे राज्ञः पुरुषइतिवाक्यं प्रयुते न राजापुरुषइति तन्मूलान्वेषणे प्रागेव द्रागेवेयमेवाकाङ्क्षा नेयमित्यस्य (१) पुस्तकान्तरे पाठोयम् ।
SR No.008449
Book TitleVyutpattivada Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy